पृष्ठम्:पद्मिनीपरिणयः.pdf/१३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1952]
श्रीपद्विनीपरिणये दशमोऽङ्कः

शार-- तत: ।

काश--श्रूयते वियति कापि कोमला वाणी ।

कासा–कथमिव

काश-

वत्से तवेव विपदां नाशः पुष्टिश्च संपदाम् ।
भूयादिदं ते चरितं वदतां शृण्वतामपि ॥ इति ।

शार--किं ब्रूमहे प्रसादमहिमानं मधुसूदनशुद्धान्तपरिवृढायाः! ।

कासा-तत: |

काश--

स्नातानामप्सु पुण्यासु तेषामाविरभूत्पुरः ।
अम्बरं विविधं भूपानिकरश्चानुलेपनम् ॥

शार-किं दुर्लभं लब्धलक्ष्मीकटाक्षणाम् ।

कासा--भगवन्!

कासारस्य च पद्मिन्या भाम्करस्यापि वा प्रभो ।
भास्वरत्वे भवानेव निदानं पङ्कभञ्जने ॥

शार---तत: ।

काश-प्रविशन्ति सर्वे नगरम् । परिवृण्वते नगररक्षकाश्शस्त्रपाणयः सक्रोधमेतान्।

उद—किमेतद्धृदयशल्यम् ?

कासा-आर्य ! नैतद्दुश्शकं भवत्तनुजस्य शस्त्रपाणीनां तापोत्पादनम् ।

काश-

प्रसरति दिशि भास्करप्रतापं बहुलतरे तरुसञ्चये निलीनः ।
स्वजन इति नृपात्मजो विदित्वा द्रुततरमेति रणाय कोपभीमः ॥

उद-निरायुधो ध्वजिनीरहितश्च वत्सः कथं जेष्यति शस्त्रपाणीन् योधान् ।

कासा-निसर्गसिद्धतेजसां किमुपकरणेन ?

शार--तत: ।

काश--हन्त भास्करस्य विजृगम्भणम् ।

तां भास्करे तपति दुस्सहतेजसि स्वां
सेनां क्षणेन कलभः पृथुकुन्तदन्तः ।
8
115