पृष्ठम्:पद्मिनीपरिणयः.pdf/१२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये दशमोऽङ्कः
तावद्गतस्सकुतुकं सहसैव तत्र
तां भास्करः प्रियतमामपसार्य धत्ते ॥

शार-अम्ब पद्मे ! पद्मिनीमवसि स्म भास्करमुपनीय । (इत्यञ्जलिं बध्नाति )। (उदयधरकासारौ शारदानन्दपादयोः पततः ) ।।

शार-

मातस्सरोजसदने मरणात्स्वकीय-
लोकस्य पालनमिदं तव नैव चित्रम् ।
दारिद्यमत्र मरणादतिरिच्यमानं
तूर्णं व्यपोह्म परिपालयसि स्वभक्तम् ॥
कलयसि भक्तिं दघतां महदैश्वर्यं मधुद्विषो दयिते ।
परमां भक्तिं चरणे दत्सं वहतान्तु मोक्षसाम्राज्यम् ॥

तत: ।

काश--

ओजायितेऽधुना कामं भास्करे पद्मिनीपतौ ।
हिमानी खड्गमुत्सृज्य यत्र क्वापि निलीयते ।।

पलायन्ते पिशाचाः ।

कासा--आश्वस्ताः स्मः ।

काश--अहो महान् प्रमाद: । (सर्वे ससम्भ्रमम्) ।

शार--कथमिव ।

काश--

अट्टहासयुता शूलपट्टसायुधधारिणी ।
भैरवी पद्मिनीयुक्तं भास्करं तं जिघांसति ॥

शारदानन्दं विनाऽन्ये मूर्च्छन्ति ।

शार-सर्वान् मन्त्रपूतजलेन प्रोक्षयति । (उत्थाय सर्वे) । किं वा भविष्यति ।

शार-तत: ।

काश--

कृताट्टहासां दरहासिवक्त्रा शूलं दधानां दधती सरोजम् ।
रक्तेक्षणामेणविलोचनैषा तां वीक्ष्य लक्ष्मीरिह हुङ्करोति ॥
केकयेव शिखण्डिन्या हुंकृत्या केवलं श्रियः ।
उरगी भैरवी भीता वीतदर्पाऽद्य वेपते ॥

113