पृष्ठम्:पद्मिनीपरिणयः.pdf/१२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1959
श्रौपद्मिनीपरिणये दशमोऽङ्कः

काश--केनापि निमित्तेन पत्युः विपदं जानती पद्मिनी विलपस्येवम् ।

उद--कथमिव ।

काश--

दयित यदि तवाहं जीवतः स्यां परेता
सकलगुणनिधेः स्युः साधवो धर्मदाराः ।
भवति मम परेते हन्त वैधव्यदुःखं
निरवधि मरणान्तं स्यादिति स्पष्टमेव ॥

हिमानी मायया नेिर्माय भास्करशिर इव पातयति पद्मिन्या अग्रतः। भद्रा हिमानीं प्रति वदत्येवम् । “अयि कापालिके पातय मे कण्ठे स्वङ्गलताम्, यया मम भर्तुः कण्ठं कृत्तवत्यसि ।

कासा--युक्तमेव ।

उद-हा स्नुषे ! किं ब्रवीमि तव सौजन्यम् ?

काश--पद्मिनी प्रार्थयते पद्मालयाम् । ‘ अम्ब मह्यं सौमङ्गल्यभिक्षां देही"ति । आश्चर्यम् ।

पक्षोद्भूतसमीरवेगधरणीप्रोद्यद्रजोव्यावृतं
कुर्वन्व्योमतलं चलक्षितिधरस्फूर्जत्तनुश्रीरसौ ।
तार्क्ष्यो राजति तत्क्षणं स भुजगो नष्टः प्रहृष्टाऽधुना

कासा-को वा देवो न प्रसीदति पद्माभक्तजनस्य ?

उदय--ततः । काश-

ज्ञात्वा वल्लभमेतमस्तविपदं भव्यैर्निमितैः स्वयम् ।।

(सर्वे हर्षं नाटयन्ति ) ।।

काश --भूयः प्रमादः ।

शार-- कथम् ?

काश-

अत्युग्रलोचनविनिर्गतकोपजाश्रु-
जम्बालितापनितलाः पवितीक्ष्णदंष्ट्राः।
आवृण्वते पलभुजो भुजधार्यमाण-
भीमायुधाः सपदि भास्करमुच्चघोषाः ॥

शारः--ततः ।

111