पृष्ठम्:पद्मिनीपरिणयः.pdf/१२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1952.]
श्रोपद्मिनीपरिणये दशमोऽङ्कः

उद-कुतस्सर्वे ग्लानवदनाः ?

शार-उपविश्यताम् ।

उद--(उपविश्य ) हा मूर्च्छितस्सम्बन्धी !

भ्रुजङ्गमेन किं इष्टः किं पपौ गरलं स्वयम् ।
भीतोऽपवादात्कस्माच्चिद्धतो वा येन केनचित् ॥

शार--नैतत्सर्वम् ।

उद--(स्वगतम्) किंमन्यत्कारणम् ?

शार--(तीर्थेन प्रोक्ष्य) समाश्वसिहि ।

कासा--(उत्थाय)

कापालिकाकरवशं तनया गतेति
काल्यै बलिश्च भवितेति न मेऽद्य शोकः ।
जामातरि प्रथिततेजसि हन्त शान्ते
विश्वस्तया तनुजयाऽत्र किमस्ति सौख्यम् ॥

उद-( स्वगतम् ) कष्टं नष्टो मे सुतः प्रणङ्क्ष्यति स्नुषेति च ज्ञायते । (पकाशं) हा वत्स !

अस्त्राणि योगिनृपतेरधिगम्य भूय-
स्तेजस्विनं सुगुणदारसुशोभिपार्श्वम् ।
दृष्ट्वा भवन्तमधुना मुदमाप्तुकामः
प्राप्तोऽस्मि भद्र वेिधिना निहतो गतिः का ॥

तदहं प्रविशामि हुताशम् ।

कासा--ज्वलित एवानल: । तदावां प्रवेिशावः । (इति उभौ वह्निमभिगच्छतः) ।

शार--(निवार्य) क्षण सह्मताम् । (इति तावासयति )॥ उद--वत्स भास्कर !

भाग्येन केनापि कृतेन पूर्वं लभ्यः सुतः साधुगुणोपपन्नः।
तस्यानुरूपा च वधूरनल्पैः पुण्यैर्विना स्यात्कथमत्र लभ्या ॥

109