॥ अथ दशमोऽङ्कः ॥
( ततः प्रविशति सकाशस्तम्बशारदानन्दः ) ।
शार-वत्स! किं ब्रूमः भास्करकरम्पर्शस्फुटितपद्मलब्धस्य मणेर्महिमानम् ।
धृतेऽस्मिन् नश्यति तमः प्रसीदति मनः स्वयम् ।
अपरोक्षञ्च विज्ञानं जायते वर्धते धृतिः।
काश-स्वामिन्! कुतो मध्येमार्गमनुयायिनं रदयधरं विहाय योगमहिम्ना मामपि नयन्
कासारसमीपमागतोऽसेि ।
शार--वत्स! पथेि प्रसक्त्या स्मृत: कासार:। करस्थितमणिमहिम्ना साक्षाद्दृष्टः शोकवशाद्वैश्वनरं प्रविशन् । तत्सत्वरं समापृच्छ्य कामाच्छय तमुदयधग्मागतोऽस्मि । पश्य ।
कासार एष कष्टं सोढुमशक्तस्तनूजयोर्विरहम् ।
सप्तार्चिषं प्रवेष्टुं समिद्भिरिद्धं प्रदक्षिणीकुरुते ।।
काश-आर्य! निवार्यतां शीघ्रम् ।
शार-(द्रुतं निष्क्रम्य हस्ताकृष्टकासारः पुनः प्रविश्य) राजन्! अलमावेगेन ।
कासा-स्वामिन् ! न शक्ष्यामि सोढुमपत्यविश्लेषम् । तदनुगृह्यतां कृशानोरवगाहनाय ।
शार-आस्यताम् । तत्र यथाशक्यं प्रतिक्रियते ( इति तमासयन्नुपविशति ) ।
कासा-भगवन् ! किं जीवितेन मे ?
ज्ञातस्सुतो मृत्युमुखं प्रपिष्टो वत्सागतिं वेद न वेदनां ताम् ।
सहे सहेमाभवपुस्सुतायाः प्रियः कथं शक्यमिहेक्षितुं मे ॥
शार-काशस्तम्ब! मणिमिमं कलयन् करेऽवहितस्संस्मर कासारात्मजाम् ।(इति मणिं ददाति)
काश-(आदाय) स्वामिन् ! दृश्यते पद्मिनी क्वचन विप्रकृष्टप्रदेशे ।
शार-स देशः कीदृशः ?
काश-
संवीक्षे गहनं वनं पृथुनदीकूले शरारुव्रजै-
र्भीमं तत्र तु भैरवीगृहमदश्छद्मं पलालात्कैः ।
कासा-हा वत्से ! कथं वससि तत्र ?
103