॥ श्रीपद्मिनीपरिणयकथासङ्ग्रहः ॥
कासारो नाम राजाऽसीत्पद्मिनीति तनुभवा ।
तस्याभूत्तनयो राज्ञः कुमुदाकर इत्यपि ॥ १ ॥
दृष्ट्वोदयधराभिख्यराजपुत्रस्य पद्मिनी ।
भास्करस्याकृतिं चित्रे तस्मिन् भेजे रतिं स्वयम् ॥ २ ॥
कुमुदाकरनामा तु सुधाकरसुताकृतिम् ।
चित्रे विलोक्य रक्तोऽभूत् कौमुद्यां नाम योषिते ॥ ३ ॥
मत्तेभो नाम दुर्बुद्धिः कौमुदीं स्ववशेऽकरोत् ।
स्वपुत्रस्य कृते बालां नीत्वा स्वनिलयं स्वयम् ॥ ४ ॥
(जीमूतो नाम दुर्मेधाश्चक्रमे पद्मिनीं स्वयम्)
स्निग्धं कासारभूमीशं ययाचे सचिवेन ताम् ।
हिमानीदयितः कश्चित् दुर्धीस्तुहिनमण्डलः ॥ ५ ॥
मत्तेभस्य सखा वश्यः पद्मिनीं हर्तुमुद्यतः ।
एतत्सर्वं समालोच्य कासारो व्याकुलीभवन् ॥ ६ ॥
योगिनं शारदानन्दं पुत्रयोरिष्टसिद्धये ।
अवृणोल्लग्नकं प्राप्य काशस्तम्बाख्यशिष्यकम् ॥ ७ ॥
स तूदयधरं प्राप्य 'त्वत्पुत्रं भास्कराह्वयम् ।
अभ्यासये धनुर्विद्या'मित्युक्त्वा शिष्यमातनोत् ॥ ८ ॥
कासारपुरमानीतो गुरुणा तेन भास्करः
तत्र यातां तमोऽभिख्यां जीमूतेन प्रचोदिताम् ॥ ९ ॥
आवरीतुं तदात्मानमुद्यतां भास्करोऽवधीत् ।
कासाराय ददौ पूर्वं प्रसन्नश्चन्द्रशेखरः ॥ १० ॥
अन्तःस्थरत्नं मुकुलं व्याजहार च तं नृपम् ।
'येनेदं मुकुलं स्पर्शात् क्रियतेऽत्र विकस्वरम् ॥ ११ ॥
विद्धि तं वैष्णवं धाम जामाता स भवे'दिति ।
स तन्मुकुलमादाय शारदानन्दसन्निधौ ॥ १२ ॥