पृष्ठम्:पद्मिनीपरिणयः.pdf/११९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[XIII. 2
JOURNAL OF S. V. ORIENTAL INSTITUTE

भास्क-कुतः ?
अरु--पद्मिनीविरहात् ।
भास्क-पद्मिनी कुत: ?
अरु--न ज्ञायते ।

भास्क-

कुसुमशर नमस्ते तिग्मबाणप्रयोगा-
द्विरम परभृत त्वां नौमि मौनं भजस्व ।
मलयपवन दूरे वाहि भद्रं तव स्या-
द्भवति हि भुवि पुण्यं दीनसंरक्षणेन ॥


अरु-सखे ! निषीद प्रच्छायशीतले वकुलपादपतले ।
भास्क-(निषीदन्) सखे ! नान्यत्र गता तव सखी ।

शुशुत्सया मत्प्रणयस्य मन्ये कयाऽपि शत्त या मम चित्तमेव ।
प्रवेिश्य लीना ह्यथवा तदेतन्न युज्यते तापमिदं यदेति ।।


अरु-मा विलापीः । भगवान् शारदानन्दो यदत्र प्रतिकर्तुं शक्नोति ।
भास्क-सखे ! मम तातपादानानेतुं गतो नितान्तगुणोऽसौ योगी यावदायाति तावत क्व वत्स्याव: !
अरु-सखे ! तावदध्युषितपूर्वं प्रमदावनप्रासादमध्यास्वहे ।

(इति निष्कान्तौ )
इति पद्मिनीपरिणये नवमोऽङ्कः ।


102