भास्क-सखे !
प्रियाविश्लेषशोकाग्नौ दहत्यापादमस्तकम् ।
क्षिपतीव पिता तस्याः स्वविलापमयेन्धनम् ।।
कथञ्चिदहमाप्स्यामि पद्मिनीमिव वल्लभाम् ।
कासारसदृशो जातु श्वशुरो न भविष्यति ।।
अरु-सखे ! यदि भवता भूयः पद्मिनीसदृशी सुदती लभ्येत, कासारसदृशः श्वशुरश्च
भवेदसंशयम् ।
भास्क---साधु साधु ! तव वचनम् ।
पद्मिनीसदृशी कान्ता भास्करस्य न जातुचित् ।
कासारसदृशः पूज्यस्तथैव न भविष्यति ॥
यस्याः कटाक्षलहरीव मधुव्रतालि
-
र्यस्याः कचावलिरिवाभिनवाम्बुनीली (?) ।
यस्यास्तथा मुखमिवाम्बुरुहं विकासेि
तस्या भुवीह सहशी सुलभा क्व वा स्यात् ॥
यस्याः कुचाविव विभाति रथाङ्गयुग्मं
यस्या गतीरनुकरोति मरालयोषा ।
यस्यां निवासमयते कुतुकेन लक्ष्मी-
स्तस्या विना विलसितं मम जन्म कीदृक् ।।
भ्रम-हळा जहा तुमं अविआसिमुहपदुमा होसि तदा अह्माणं सहचरीणं दुःसहो खु किळेसां । (यदा त्वमविकासिमुखपद्मा भवसि तदास्माकं सहचरीणां दुस्सहः खलु क्लेशः ।
भास्क-भद्रे! कथं सहेथास्तस्याः पद्मिन्या विरहम् । यस्यास्त्वं माध्वीभिरिव मधुराभि-
रुक्तिभिरानन्दितासि ।
अरु–भद्रे ! समाश्वसहि ।
भास्क-
पिहितमिव मनो मे शोकदावाग्निनाऽयं
क्बलित इव देहः क्ष्वेलतापेन सर्वः ।
98