अरु-(उत्थाप्य) वयस्य ! धैर्यं गृहाण ।
भास्क-
सा मां ध्रुवं स्वहृदये दधती म्रियेत
तामेवचेतसि दृढं कलयन्म्रियेऽहम् ।
आवां परत्न मिलितौ सुखिनौ भवाव
यं भावमेति वपुपश्च्यवने स हि स्यात् ॥
(इति मूर्छति)
अरु---( वीजयन्) हा नोन्मीलयति चक्षुः । प्राणहानोद्यत एवायं सखा।
आपांसुकेलिसमयात्स्वमपांसुलाध्व
चारिन् ! सखेऽनुचरमत्र विहाय मां द्राक् ।
कैश्चिद्दिनैः परिचितां विदतः प्रियां तां
किं ते विधातुमुचिता परलोकयात्रा ।।
( इति पतति )
भ्रम--(उभावपि जलेन निषिच्य) समस्ससिहि । (समाश्वसेिहि ) ।
भास्क - -(उन्मील्य ) हन्त ! मूर्च्छितः सखा !
सखे ममोदयो नित्यं त्वां पुरस्कृत्य जायते ।
तादृशो मां कथं त्यक्त्वा परलोकं विगाहसे ॥
(उत्थापयति)
अरु- (भास्करं वीक्ष्य) वयस्य !
त्वद्विपत्तिदशां द्रष्टुमक्षमेण मयाऽधुना ।
मर्तुं व्यवसितं शीघ्रं किमर्थं मामबोधयः ॥
कासा--हा वसे !
त्वं जातमात्रा यदि लोकमन्यं तदा प्रविष्टा तव दुःखमेव ।
मां तापयेदद्य तु भास्करस्य सम्बन्धहानिर्दहतीह चेतः ।।
अरु–(स्व) युक्तमेतत् । (प्र) भास्करसम्बन्धं विना कासारस्य नास्ति हि सौगन्ध्यम् ।
97