पृष्ठम्:पद्मिनीपरिणयः.pdf/१०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[XIII. 2
JOURNAL OF S. V. ORIENTAL INSTITUTE

कासा-हा वत्स !

चिरात्प्रवर्धितं प्रीत्या मया त्वां हन्त याचते ।
कापि कापालकी पापा कालीसन्तृप्तये बलिम् ।।


(इति मूर्च्छति)।


विदू-वअस्स समस्ससिहि । सेसं सुणुमो । (वयस्य समाश्वसिहि । शेषं शृणुमः)।
कासा--( आश्वस्य ) । भद्र ! ततः ।
मिलि–कति दिनान्यवशिष्टानि जपावसानकरणायेति हिमानीमप्राक्षीत् ।
विदू-किं सा पावा कहिदवदी । (किं सा पापा कथितवती ) ।
मिलि-त्रिचतुराणि वासराण्येवावशि़ष्यन्ते । अनुपदं भाविभौमवारावधि क्वचिन्निबध्य रक्षि- तव्योऽयमस्त्विति ।
कासा-हा ! तदुद्दिष्टं कुजवासरमेतदेव खलु ?
विदू–ततो । (ततः ) ।
मिलि--तत्क्षणे शृङ्खलया निबध्य खलया याच्यमानः कलभः सखायं न्यवीविशत्क्वचिद्- नितरसुगमे प्रदेशे ।
क्रास-हा वत्स !

निगलनिबद्धाङ्घ्रियुगं नितरां क्लान्ताननाम्बुजन्मरुचिम्
कान्ताशोकनिदानं त्वां तं सञ्चिन्त्य सीदति स्वान्तम् ।।


मिलि-तदानीमपि सखा मम न ग्लानवदनः; किञ्चिन्निमीलितनयनः कृताञ्जलिः स्वदेवतामेव ध्यायति स्म ।
कासा--भद्र! तस्य स्वदेवता सा ध्रुवं मङ्गलदेवता खलु ।
मिलि-न केवलं भगवती सा स्वदेवता तस्य। अपितु कपिकुलाग्रणीः समीरणतनुजोऽपि।
कासा-यदि वत्सो भगवतीं भार्गवीं तद्रमणचरणध्यानपरं पवनकुमारमपि तदा स्मरेदसंशयं
सर्वविपदर्णवोत्तीर्णो भवेत् । उक्तं हि –

कारागारे प्रयाणे वा सङ्ग्रामे देशविप्लवे ।
ये स्मरन्ति हनूमन्तं तेषां नास्ति विपत्तदा

इति ।


90