पृष्ठम्:पद्मिनीपरिणयः.pdf/१०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[XIII. 2
JOURNAL OF S. V. ORIENTAL INSTITUTE

कासा-तत: !
मिलि- तथा निशीथे नितरां निशान्तान्निर्गत्य शीघ्रं निभृतं कथञ्चित् ।
रथ्यामयासीन्तिबिडां सशस्त्रैः
कासा-हृ! तत:?
मिलेि- आरक्षकैः पुष्करसोदराक्ष्या ।
विदू-तदो । ( ततः ? ) ।
मिलि–हन्त ते निरुध्य तं क्रुद्धाश्शुद्धान्तादपहृत्य पक्ष्मलोचनामेष चोरवन्निर्यातीति द्रुतं
विद्रुताः केचिन्निवेदयामासुर्मत्त्तेभपुवाय ।
कासा-तत: |

मिलेि-

गर्जन् जवादूर्जितकोपभीमःपीनायताग्रोज्ज्वलकुन्तदन्तः।
सहानुगैस्साहसकृत्यकारी वयस्वमादौ कलभो न्यरौत्सीत्।


कासा-हा वत्स ! तथा भीषणान् कलभादीन् रोषणान् वीक्ष्य कोमलवपुस्त्वं
कीदृगासी:। भद्र ! तत: ।
मिलि-तदानीम्

शस्त्रं कुतश्वित्प्रसभं गृहीत्वा स युध्यमानो बहुभिर्वयस्यः
निपात्य कांश्विद्दयेितामधित्वीद्रसेन श्रीरेण च वीरमौलिः


विदू-मह वअस्सकुमारो खु, महासूरस्स । (मम वयस्य कुभारः खलु, महशूरस्सः )।
कासा-( विहस्य) सखे ! भवान् कुत्र विषये महाशूरः?
विदू-भोअणे मह सोरिअं विदअं खु । (भोजने मम शौर्यं विदितं खलु) ।
मिलि--(विहस्य) ततो हृतेषु योधेषु बहुषु नवनवमागतैर्नियुध्य परिश्रान्तोऽभूत्सखा ।
कासा-हृन्त दुराशयास्ते नीतिं विसृज्य प्रवृत्ताः खलु कलहे क्लभादयः । ततः ।

मिलेि-

परिथ्रान्तभुजं वीरं प्रतियुध्य खलाग्रणीः ।
कलभः स्वयमाक्रम्य क्लान्तं हृन्तुं समुद्यतः


कासा वत्स ! कलमेतावन्तं कलहमुखमप्राप्तवानपि प्रकाश्य शौर्यमनल्यं कालमिव प्रतिभयं
कलभमभिमुखं विलोक्य कीदृशीं दशामापन्नोसि? भद्र ! ततः ।