चन्द्रोदयेन सहसा बिभिदे तमिस्रा
त्रय्यन्तबोधविधिनेव चिरादविद्या ।
द्रागन्वभूयत तदा किल जीवलोकैः
कोऽप्यद्भुतः सुखमयः परिणामभेदः ॥ ३२ ॥
तां तारकाहितरुचिं तमसो निहन्त्रीं
तापस्य चोज्ज्वलमृगाङ्ककरां त्रियामाम् ।
काश्यामसेवत तदा किल शंकराख्यो
लिङ्गे शिवस्य महिते मनसा च मूर्तिम् ॥ ३३ ॥
आत्मानमेकमखिलेष्वयमद्वितीयं
पश्यन्नपि व्यवहरन्निव लोकरीत्या ।
तुष्टाव नूतनसुधातुलितैर्वचोभि-
रेवं प्रपन्नकरुणाकरमिन्दुमौलिम् ॥ ३४ ॥
कस्त्वामवाङ्मनसगोचरमस्तु शक्तः
स्तोतुं सहस्व तदिहं स्तुतिसाहसं मे ।
देव स्तवाय तव यन्निगमाः प्रवृत्ताः
शवानो बभूवुरपराधिन इत्यवमि ॥ ३५ ॥
चित्तेऽन्धकारिणि मम क्रमितुं क्षमेत
पादाब्जमेकमपि तावकमिन्दुमौले ।
अस्त्यक्षि यस्य हरिणार्पितमर्चनार्थं
मञ्जीरपन्नगफणामणिदीपिका च ॥ ३६ ॥
यद्गीयसे श्रुतिगिरा त्वमपाणिपाद-
स्तद्विश्वसन्ति भु[१]वनानि विनामरौ द्वौ ।
- ↑ ‘भुवनानि विभो विना द्वौ'ख. अयं पाठः समीचीनतरश्चेति दृश्यते.