पुटमेतत् सुपुष्टितम्
७ सर्गः]
४७
पतञ्जलिचरितम् ।
रमणस्य यत्र वसतोऽपि दूरतः
प्रतिबिम्बमेव मणिभित्तिदर्शितम् ।
परिरब्धुमुद्यतभुजा नवा वधू-
र्विजनेऽपि हन्त विरराम केवलम् ॥ ४५ ॥
कुपितां निशम्य रमणीं नवागसा
दयितेन तीव्रमनुनेतुमीयुषा ।
यदगारसीम्नि मणिसालभञ्जिका
प्रणता भिया परिहसत्सखीजनम् ॥ ४६ ॥
निशि यत्र वेश्मनि विधूपलस्फुर-
द्वलभीवलीकगलदम्बुशीतले ।
तरुणो निदाघसमयेष्वपि प्रिया-
कुचकुम्भगाढपरिरम्भमातनोत् ॥ ४७ ॥
घनसारपङ्ककलिते तपागमे
यदगारकुट्टिमतले युवा गतः ।
निपतिष्यतीमिव सखीजनान्तिका-
च्चलितां सलीलमबलां करेऽग्रहीत् ॥ ४८ ॥
जलदागमे जलजलोचनाः पुन-
र्द्दढबद्धजालककवाटमालयम् ।
अधिशय्य यत्र रमणादधीयते
चिरकालविस्मृतमिव स्मरागमम् ॥ ४९ ॥
न हि कश्चिदस्ति किल भिक्षुको जनो
यदधिष्ठितेषु धनधान्यशालिषु
परिधातुमप्यसुलभैकवाससं
भवमन्तरेण धृतभैक्षभाजनम् ॥ ५० ॥