नृणां तृतीयप्रथमार्थसाधने प्रशस्तमासाद्य मधुं स भूसुरः ।
मखेन यष्टव्यमयष्ट दैवतं नयेन दारांश्चतुरोऽप्यरीरमत् ॥ ५६ ॥
प्रियाश्चतस्रः प्रतिपेदिरे शनैः शरत्प्रसन्नामिव चन्द्रिकां दिशः ।
द्विजस्य हर्षार्णववृद्धिदायिनीं नितान्तरम्यामथ दौहृदश्रियम् ॥ ५७ ॥
बभूवुरासां श्रमवारिबिन्दवो मुखेषु केलीकमलग्रहादपि ।
विहारिकारण्डवपातिताः कणास्तरङ्गिणीनां सरसीरुहेष्विव ॥ ५८ ॥
तदा तदीयास्तनवश्चकाशिरे परिष्कृता दौहृदपाण्डिमश्रिया ।
शशाङ्ककान्त्येव शरत्प्रसन्नया करम्बिताः काश्चन सालभञ्जिकाः ॥ ५९ ॥
रसान्तराद[१]प्यवकृष्य केवलं मनो बबन्धुर्हृदि योषितस्तदा ।
निसर्गतः सर्गविधौ हि वेधसः प्रियाप्रिये वस्तुषु न व्यवस्थिते ॥ ६० ॥
क्रमेण तासामसितभ्रुवां घनाः पयोधरा नीलमुखाश्चकाशिरे ।
सुरेन्द्रनीलोपलमुद्रिताञ्चला मनोभवार्हा इव हैमसंपुटाः ॥ ६१ ॥
तनुस्फुरत्पाण्डिमचण्डिकारुचा कलाधरे गर्भगते निरूपिते ।
तमस्विनीं तत्कुतुकादिवागतां बभार रोमावलिमङ्गनागणः ॥ ६२ ॥
विनेतुमेकं बलिमेव चक्षमे समुत्थितं विष्णुपदं पुरा युगे ।
इति स्थितामप्यवधूय तत्तुलां वधूवलग्न्यान्यहरन्वलित्रयम् ॥ ६३ ॥
ततो मुहूर्ते रुचिरे द्विजोत्तमैः पुरंध्रिभिः पूरितचत्वरे गृहे ।
स शास्त्रदृष्टेन पथा मृगीदृशां समन्वतिष्ठत्समयोचिताः क्रियाः ॥ ६४ ॥
कृतैर्यथाचोदितमेव कर्मभिर्विरेजिरे विप्रवरस्य सुभ्रुवः ।
कृषीवलस्यौषधयः प्ररोपिताः स्वकाललब्धैरिव वर्षवारिभिः ॥ ६५ ॥
दिनेषु ताः सत्पुरुषोदयोचितेष्वरालकेश्यो विदुषां शिखामणेः ।
क्रमात्कुमारान्कमनीयतेजसो मणीनिवासोषत सिन्धुशुक्तयः ॥ ६६ ॥
- ↑ ‘दप्यक्कर्ष्य’ क; ‘दप्यपकृष्य’ ख.