पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/41

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याक्ष्यभ। 德钱 दर्शिनः ॥' इति गीतवचनात् तादृशः अपिः केवलं कृपया उपदिशन्तीति भावः । गुरुभक्तीति । गुवीं च सा भक्तिश्चति गुरुभक्तिस्तया यः प्रसादः , गुरूणामनुप्रहस्तस्मात् ज्ञातव्यमित्यथैः । गुरुषु भक्तिरिति वा ।। ६३ ॥ एर्व विशिष्ठगुवैनुप्रहादिर्द प्रकरणमर्थतो ज्ञावा कि कर्तव्यमिल्यत 研宦一 इमां विद्यां प्रयलेन योगी संध्यासु सर्वदा । समभ्यसेदिहामुत्रभोगानासत्तधीस्सुधीः ॥ ६४ ॥ इति श्रीमत्परमहंसपरिव्राजकांचार्यवर्य श्रीमच्छंकरभगवत्पादशिष्य श्रीसुरेश्वराचार्यविरचिर्त पश्धीकरण संपूर्णम् ॥ इमामिति । विद्यां विद्याहेतुभूतमिदं प्रकरणमित्यर्थः । ਤਾਜਿਕ वाध्यविद्याहेतुभूतवेदान्तवाक्येषु उपनिषच्छब्दबद्दष्टव्यम् । प्रयत्नेनेति । लोकवार्तादिविन्ना यथा न स्युस्तथा प्रयत्नै कृत्वेत्यर्थः । संध्यासु सार्यप्रातः संध्यासु समभ्यसेत् सम्यगभ्यसेत् अर्थानुसंधानपूर्वकं जपेदित्यर्थः । तन्नाधिकारिर्णे दशैयति-इहेति । वैराग्र्यं साधनचतुष्टयसंपन्युपलक्षणार्थः। सुधीरिति श्रवणमननजन्यज्ञानवानित्यर्थः। कृतश्रवणमननस्यैव निदिध्यासनेऽधिकारादिति । अनया पश्करणवार्तिकाभरणरूपया कृत्या । श्रीकृष्णः प्रीतो भक्ताद्विबुधाचैनां समीक्ष्य मोदन्ताम् । इति शम् ॥ ६४ ॥ | इति श्रीपरमहंसपरिव्राजकाचार्य श्रीकेवल्येन्द्रसरस्वतीपूज्यपादशिष्य श्रीमज्ज्ञानेन्द्रसरस्वती पूज्यपादशिष्य श्रीमदभिनवनारायणेन्द्र सरस्वतीभिः विरचितॆ पञ्चीकरणवार्तिकाभरणै समाप्तम्, ॥ः ബജ