पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/38

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


३० पच्चीकरणवार्तिकम। यथा एकस्यैवेन्दोर्भेदेन भानै नेत्रावष्टम्भाद्यपाधित्रशास्तथैकसैयैव ब्रह्मणस्ततदुपाधिवशाद्देवतिर्यङमनुष्यादिरूपेण भेदभानमित्यर्थः । ननु तुत्वसाक्षात्कारानन्तरमज्ञाननाशेऽपि पुनश्शरीरादिप्रतिभासाङ्गीकारेऽनिर्मोक्ष एव स्यादिल्याशङ्कय तस्यात्रंधिमाह--- प्रतिभासश्शरीरस्य तदाऽऽप्रारब्धसंक्षयात् ॥ ५८ ॥ प्रतिभास हूँति । तदा ज्ञान कॉलेऽपि शरीरस्य प्रतिभाम: आप्रारब्धसंक्षयादिति च्छेदः । मर्थादयामाङ् प्रारब्धसंक्षयपर्येन्तं । तन्नाशे तु शरीरादिप्रतिभासोऽपि नश्यतीत्यर्थः । तदुक्तमभियुक्तैः - शाखण नश्येत्परमार्थरुपै कार्यक्षर्म नश्यति चापरोक्ष्यात् । प्रारब्धनाशात् प्रतिभासन्नाश एर्वं त्रिधा नशयति चात्ममया ॥ इति ! अस्मिन्नर्थे श्रुर्तिं प्रमाणयति - तस्य तावदेव चिरमित्यादि श्रुतिरब्रवीत् । तस्येति । तस्य ज्ञानिनस्तावदेव तावत्पयैन्तमेव चिरं विलम्बः यावलग्रारब्धकर्मणा न विमोक्ष्ये न विमोक्ष्यते । अथ प्रारब्धकर्मविमोचनानन्तर्र संपत्स्ये संपद्यते । लकारपुरुव्यत्ययश्छन्दसः । ज्ञानेनाज्ञानम्यावरणशक्तिंनाशेऽपि तत्कृतो विक्षेपः कंचित्कॐ चक्रभ्रमिन्यायेन , परमते तन्त्वादिनाशानन्तरमपि पटादिवच्चानुवर्तत इति भाव । तहिं विदुषी बद्ध जनस्येव शरीरादिप्रतिभासांगीकारे तत्कृतसुखदुःखादिकमपि स्यादिल्याशैक्य तस्य मिथ्यावेन ज्ञातत्वान दुःखादिहेतुत्वमिल्याइ - प्रारब्धस्यानुवृत्तिस्तु मुक्तस्याभासमात्नतः ।। ५९ ॥