पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/29

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

শুনাঙ্কয়াযযাম । A. फरणोपरम ईति । करणानां चक्षुरादीनां उपरमे सति जाग्रदनुभवजन्यसंस्कारोत्थान्त:करणवृतिरूपप्रबोधयुक्तं यद्ग्राह्मग्राहकरूपेण स्फुरणं चैतन्यमस्ति तद्विषयभूतरथगजादिः तद्विषयकान्तःकरणवृत्तिश्चेति द्वर्यै स्वप्न इत्यर्थः । मूले * जागरितसंस्कारजः प्रल्ययमविषयः स्वप्नः' इत्युक्तत्वात्तदनुसारेगैवै व्याख्यातन्। अन्यथा चैतन्यस्य स्वभावस्थान्तर्भावे तस्याप्यपलापापतः ॥ एर्व शरीरमवस्था चोक्त्वा तदभिमानिर्न दर्शयति - अभिमानी तयोर्यैस्तु तैजसः परिकीर्तितः ॥ ३८ ।। अभिमानीति । तयोः स्वप्नसूक्ष्शरीरयोः । तैजस इति । तेजसि वासनायामभिमानित्वेन निर्वृत्तो भवतीति तैजस इत्यर्थः ॥ ३८ ॥ हिरण्यगभैरूपेण तैजसं चिन्तयेद्बुधः । अत्र हिरण्यगर्भशब्देन समष्टिसूक्ष्मशरीराभिमानी सूत्रारमोच्यते । यथा व्यष्टिभूतपत्रपुष्पशाखादिकं समष्टिभूतवृक्षरूपेण पश्यति एको वृक्ष इति, तथा व्यष्टिभूतसूक्ष्मशरीराभिमानिनै आत्मानै व्यष्टिसूक्ष्मशरीराभिमार्ने हित्वा समष्टिसूक्ष्मशरीराभिमानित्वेन ध्यायेदित्यर्थः । एर्व सूक्ष्मशरीरं स्वभावस्थाँ तदभिमानिने चोकारार्थमुक्त्वा मकारार्य वक्तुं कारणशरीरं तस्य भोगसंपादिकामवस्थां तदभिमानिनं च दर्शयति--- चैतन्याभास' खचित शरीरद्वयकारणम्। ३९ ॥ अात्माज्ञानं तदव्यक्तमव्याकृतमितीर्येते । चैतन्येति । केवलज्ञानस्य शरीरद्वयकारणांवासंभवाचैतन्याभास खचित्तुमित्युक्तम् । चैतन्यप्रतिबिम्बसहितमिल्यर्थः । अत्र यदित्यध्याहारः । यच्छरीरद्वयकारणमज्ञानमस्ति तदव्यक्तमव्याकृतमितीर्यत इति संबन्धः ॥ ४. कथितम् ।