पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/27

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

শুভধান্ত অনু। 慧 श्रोत्रं त्वङ् नयनं * घ्रार्णं जिह्वा धीन्द्रियपञ्चकम् । वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियपञ्चकम् ।। ३२ ॥ मनो बुद्धिरहङ्कारश्चित्तं चेतश्चतुष्टयम् । सङ्कल्याख्यं मनोरूप बुद्धिर्निश्रयरूपिणी ॥ ३३ it अभिमानात्मकस्तद्वदहङ्कारः प्रकीर्तितः । अनुसन्धानरूपं च चित्तमित्यभिधीयते ।। ३४ ॥ सङ्कल्पाख्यमिति । सङ्कल्पवृत्तिरूपेण परिणतमन्तःकरर्ण मनः इत्यर्थः । निश्चयाख्यवृत्तिपरिणतै च बुद्धिः । अभिमानवृत्तिपरिणतमन्तःकरणं अहृङ्करः । पूर्वोत्तरानुसंधानरूपवृत्तिमच्चित्तमित्यर्थः ॥ मनो बुद्धिरहङ्कारश्चितै चेति चतुष्टयमू । संशयो निश्चयो गर्वः स्मरणै विषया इमे । इत्यभियुक्तोक्तेः । तन्न गर्वोऽभिमानः , स्मरणमनुसंधार्न, विषयाः साध्या वृत्तय इत्यर्थः ।। ३४ ॥ प्राणोऽपानस्तथा व्यान उदानाख्यस्तथैव च । समानश्चेति पञ्चैताः कीर्तिताः प्राणवृत्तयः ॥ ३५ ॥ खं वाय्वग्न्यम्बुक्षितयो भूतसूक्ष्माणि पञ्च च । अविद्याकामकर्माणि लिङ्ग पुर्यटक विदुः ॥ ३६ । पुर्येष्टकमिति । ऎकैकं पञ्चकमेकैका पुरी, मनआदिचतुष्टयमेका पुरी, कामादिकं प्रत्येकमेकैका पुरीति पुर्येष्टकं । एतच्च ज्ञानेन्द्रियादिपञ्चकं जीवस्य भोगसाधनत्वात् तदुपाधित्वेन तदवस्थानप्रदेशत्वाच्च पुरीव राज्ञः पुरीत्यर्थः । .. श. जिह्वा घ्रार्णे चेन्द्रियपञ्चकम्