पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/25

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याक्ष्यम् । vs बृहस्पत्यादीनां तु बुद्धयादिदेवतत्वमागमादवगन्तव्यम् । इतरेषां तु

  • अनिर्वाभूत्वा' इत्यादिश्रुतौ तथावै स्पष्टमिति ॥ २४-२५ ॥

अहङ्कारस्तथाध्यात्ममईंकर्तव्यमेव च । अधिभूतं तदित्युक्तं रुद्रस्तत्त्राधिदैवतम् ।। २६ ।। चित्तमध्यात्ममित्युक्तं चेतव्यं तत्र यद्भवेत् । अधिभूतं तदित्युक्तं क्षेत्रज्ञोऽत्राधिदैवतम् ॥ २७ ॥ तमोऽध्यात्ममिति प्रोक्तं विकारस्तस्य यो भवेत् । अधिभूतं तदित्युक्तमीश्वरोऽत्राधिदैवतम् ।। २८ ।। क्षेत्रज्ञः साक्षी ; ईश्वरस्तु मायाप्रवर्तकः जगत्कारणमिति भेदः । एवमध्यात्मादिविभागै प्रदर्य इन्द्रियैरथॉपलब्धिर्जागरितमिति वाक्ये इन्द्रियग्रांडूर्ण करणोपलक्षणार्थमित्यभिप्रेष्य वदन् वाक्यार्थमुपसंहरति बाह्यान्तःकरणैरेवं देवतानुग्रहान्वितैः । स्र्व स्र्व च विपूर्य ज्ञाने तज्ञागरितमुच्यते । २९ । बाहोति । अन्न ज्ञानमिति कर्मेन्द्रियव्यापाराणामुपलक्षर्ण, अन्यथा कर्मेन्द्रियस्यासंप्रद्दापातात् खरूपनिरूपणवैयथ्यै स्यादिति ॥ २९ ।। तदुभयाभिमानीयत्रोभयशब्दार्थ वदन् तद्वाक्यार्थमाह येर्य जागरितावस्था शरीरं करणाश्रयम् । यस्तयोरभिमानी स्याद्विश्व इत्यभिधीयते । ३० । येयमिति । विश्वस्य स्थूलसूक्ष्मकारणंशरीरत्रयाभिमानित्वात् सूक्ष्मशरीर'ग्रहणाय शरीरं करणाश्रयमित्युक्तं । अत एव तमश्शुब्दितकारणशरीरं अपि 1. अ. संग्रहाय ।