पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/22

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


অস্ত্ৰীক্ষািবদ্যালাবিন্ধম! अत्राधिभूतमिति तत्तदिन्द्रियविषय उच्यते । शब्दस्वरूपं श्रोत्रेन्द्रियस्थः विषय इत्यर्थ । एवै सर्वत्र योज्यमू । दिश इतेि। दिश: श्रेत्र भूत्वा कर्णी प्राविशनिल्यादिश्रुत्या दिगादीनामधिष्ठातृदेवतात्वावगमात्तषु तथात्वमङ्गीकार्यमित्यर्थः एतेन जीवाधिष्ठिनानामेवेन्द्रियाणां प्रवृत्युपपत्तेस्तदधिष्ठाध्यो देवता न सन्तीति वदन्तो वैशेषिकादयो निरस्ताः । श्रुतिविरोधादसंगस्य जीवस्याधिष्ठातृत्वानुपपत्तेः । यद्यपि श्रुतौ अग्रेिवांग्भूत्वा मुखें प्राविशदिल्यादिना वागग्न्यादिक्रमेणाध्यात्मादिविभाग उक्तः तथापि तदुपादकतद्ग्राह्यभूतक्रमेण तत्रापि ज्ञानेन्द्रियपूर्वकत्वात् कर्मन्द्रियप्रवृत्तः तदुत्पादकप्राह्यभूतक्रमेणाध्यात्मादिक्रम इहोक्तः ।। १४ ।। त्वगध्यात्ममिति प्रोक्तं स्प्रष्टव्यं स्पर्शलक्षणम् । अधिभूतं तदित्युक्तं वायुस्तत्त्राधिदैवतम् ।। १५ ।। वायुरिति । यद्यपि 'ओषधिवनस्पतयो लोमानि भूत्वा त्वचै प्रविशक्षिति ? श्रुनौ ओषधिवनस्पतीनां लग्देवतावमुक्तम्। तथापि तेषां देवतात्वाप्रसिद्धेस्तेषामधिष्ठाता वायुरेव ओषध्यादिशब्देनोक्त इति मत्वा इह वायुरित्युक्तम् । वृक्षाणां वायव्यत्वं च श्रुत्यादिप्रसिद्धमिति भावः ॥ चक्षुरध्यात्ममित्युक्तं द्रष्टव्यं रूपलक्षणम् । अधिभूतं तदित्युक्तमादित्योऽत्राधिदैवतम् ।। १६ ॥ जिह्वाध्यात्मं तयाssखाद्यमधिभूतं रसात्मकम् । घरुणो देवता तत्र जिह्वायामधिदैवतम् ।। १७ ।। जिह्रेति ।। रसात्मकमास्वाद्यमधिभूतमित्यन्वयः । वरुणो वा र्तं गृद्धातील्यार्दी व्याधिविशेषे वरुणशब्दप्रयोगात तद्वद्यावृत्यर्थ देवतारूपी वरुणो