पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/12

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पच्चीकरणवार्तिकम। इति स्मृतेरोङ्गारोचारणं 'तदर्थतत्वानुस्मरणात्मकं मङ्गळमाचरनू प्रकरणस्यार्थ संक्षेपेण श्रोतृबुद्धिसौकर्यार्थ कथयति - ओोङ्कारस्सर्ववेदानां सारस्तत्त्वप्रकाशकः । तेन चित्तसमाधार्न मुमृक्षुणां प्रकाश्यते ।। १ ।। ओङ्कार इति । तेनोङ्कारेण चित्तपमाधानै प्रकाश्यत इति सम्बन्धः । चित्तसमाधानं ब्रह्मात्ममेदाकारतयावस्थानै, अखण्डब्रह्माकारवृत्तिरूपेण परिणामः, न तु शास्त्रान्तरप्रसिद्धचित्तवृत्तिनिरोध इत्यर्थः । अहं ब्रह्मास्मील्यमेदेनावस्थानै समाधिरिति मूले वक्ष्यमाणत्वात् ।। * समाधिस्संविदुत्पत्तिः परजीवैकतां प्रती'ति स्मृतेश्च ।। *ततश्चित्तस्याखण्डाकारवृत्तिरूपं ज्ञानं येन प्रकारेणोङ्कारेण जायते स प्रकारः प्रकाश्यत इत्यर्थः । ओङ्कारस्य ज्ञानजननप्रकाश°सामर्थ्यमाह-तत्त्वप्रकाशक इति। तत्त्वमस्यादिवाक्यवन्महावाक्यवििधया विधिमुखेन नेति नेतीति वाक्यवन्निषेधविधया च तत्त्वभ्रंकाशकत्वं तस्य श्रुतिस्मृतिप्रसिद्धमिल्ययैः ॥ ननु तत्त्वमस्यादिवाक्येभ्यः ओङ्कारस्य को वा विशेषः ? येन ओंकारेणैव चित्तसमाधानै प्रकाश्यते तन्नाह - सर्ववेदाना सार इति । मृदिव घटशरावादीनां, सर्ववेदानुस्यूततया कारणत्वातेषां सार: 'ओंकारेण सर्वा वाकू संतृण्णेति' श्रुतेरिल्यर्थः । अयमाशयः - तत्त्वमस्यादिवाक्यानां मध्ये केनचित् वाक्येन चित्तसमाधानप्रकारे प्रकाशिते अप्रकाशितवाक्यान्तरं * ध्यायिनां ततो वाक्यात् समाधानासिद्धेः वाक्यान्तरेष्वपि तत्प्रकाशयितव्यै स्यादिति यन्नगौरवं स्यात् । ओकारेण तत्प्रकाशने तु तस्य सर्ववेदवाक्यसारत्वात् सर्वत्र वाक्ये समाधानप्रकारः * प्रकाश्यत इति न पृथक् कार्यः स्यात् । ओंकारेणैव सर्वेषां चित्तसमाधानसिद्धेश्च न यत्नान्तरं कार्यमिति वा लाघवमिति । l • अ. तदर्थपरिसमाध्स्यर्थ ! 8. अ. तलिस्य । १. अ. नास्ति। 4. अ. न्तराध्यायिनां । 6- अ. प्रकाशत ।