पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/10

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R पञ्चीकरणम ॥ शरीरद्वयकारणमात्माज्ञानं साभासमव्याकृतमित्युच्यते । एतत् कारणशरीरमात्मनः । तच्च न सत्, नासत् , नापि सदसत् । न भिन्नम्, नाभिन्नम्, नापि भिन्नाभिन्नै कुतश्चित् , न निरवयवम्, न सावयवम्, नोभयम् । कि तु केवलब्रह्मात्मैकत्वज्ञानापनोद्यम्। सर्वप्रकारज्ञानोपसंहारे बुद्धः कारणात्मनाऽवस्थानं सुषुप्तिः । तदुभयाभिमान्यात्मा प्राज्ञः । एतत्त्रयं मकारः ॥ अकार उकारे, उकारो मकारे, मकार आँकारेSहम्येव । अहमात्मा साक्षी केवलश्चिन्मात्रस्वरूपः , नाज्ञानम्, नापि तत्कार्यम् । किं तु नित्यशुद्धबुद्धमुक्तसत्यस्वभावै परमानन्दाद्धये प्रत्यग्भूतचैतन्यँ ब्रह्मैवाहमस्मीत्यमेदेनावस्थानं समाधिः । ‘तत्वंमंसि' * ब्रह्माहमस्मिं? * प्रज्ञानंमानन्दं ब्रह्म ? * अमात्मा ब्रह्म ' इत्थादिश्रुतिभ्यः ।। इति पञ्चीकरणं भवति । पश्चीकरणं संपूर्णम् ॥ pabawakawasiwsiwnw