पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद.]

  • अभिनवराजलक्ष्मीविराजितम् *

श्रीभगवानाह-'अच कौलिको मरणे कृतनिश्चयो विहित- नियमो युद्धार्थ विनिर्गतः । स नूनं प्रधानक्षत्रियशराहतो निधन- मेष्यति, तस्मिन्हते सर्वो जनो वदिष्यति यत्-'प्रभूतक्षत्रिय- मिलित्वा वासुदेवो गरुडश्च निपातितः। ततः परं लोकोऽयमा- वयो. पूजां न करिष्यति । ततस्त्वं द्रुततरं दारुमयगरुडे सङ्क- मणं कुरु । चक्र चक्रे प्रविशतु । अहमपि कौलिकशरीरे प्रवेशं करिष्यामि-येन स शत्रून्व्यापादयति। ततश्च शत्रुवधादावयो- माहात्म्यवृद्धिः स्यात् । अथ गरुडे 'तथेति प्रतिपन्ने श्रीभगवान्नारायणस्तच्छरीरे सक्रमणमकरोत् । ततो भगवान्माहात्म्थेन गगनस्थः स कौलिकः शङ्खचक्रगदाचापचिह्नितः क्षणादेव लीलयैव समस्तानपि प्रधान. क्षत्रियान्निस्तेजसश्चकार । ततस्तेन राज्ञा स्वसैन्यपरिवृतेन जिता निहताश्च ते सर्वेऽपि शत्रवः । जातश्च लोकमध्ये प्रवादो यथा-'अनेन विष्णुजामातृप्रभावेण सर्वे शत्रवो निहताः-' इति । कौलिकोऽपि तान्हतान्दृष्ट्वा प्रमुदितमना गननादवतीर्णो याव- तावद्राजाऽमात्यपौरलोकास्तं नगरवास्तव्यं कौलिक पश्यन्ति- ततः पृष्टः 'किमेतत्' ? इति। ततः सोऽपि मूलादारभ्य सर्व प्राग्वृत्तान्त न्यवेदयत् । ततश्च कौलिकसाहसानुरञ्जितमनसा शत्रुवधावाप्ततेजसा राज्ञा सा राजकन्या सकलजनप्रत्यक्षं विवाहविधिना तस्मै समर्पिता, देशश्च प्रदत्तः। कौलिकोऽपि विहितनियम =कृतप्रतिज्ञ । प्रधानक्षत्रियशराहता श्रेष्ठयोधवीरवाणताडित ।। निधनं मृत्युम् । वासुदेव विष्णु । सङ्कमणं-सञ्चारम् । प्रवेशमितियावत् । चक्र-सुदर्शनचक्रम्। चक्रेकाष्टचक्रे । माहात्म्यवृद्धि प्रभाववृद्धि । तथा युक्तम् । इति प्रतिपन्ने इत्थ स्वीकृते सति । तच्छरीरे-कौलिकदेहे । लीलयैव-क्रीडयेव । यथा-यत् । अनेन राज्ञा । प्रमुदितमना =प्रसन्नचित्त । राजेति । राजा, अमात्यवर्ग, पुरवासिनश्च तं 'कौलिकोऽय'मिति निश्चित्य यावत्पृच्छन्ति तावत्तेन सर्वो वृत्तान्तो निवेदित इति भाव । कौलिकेति। कौलिक-