पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- एवंविधो व्यवहारः । तद्राक्षे निवेदयामः ।' एवं निश्चित्य सर्वे सभेत्य राजानंप्रोचुः-'देव ! वयं न विद्मः, परं सुरक्षितेऽपि कन्यान्तःपुरे कश्चित्प्रविशति, तद्देवः प्रमाणम्' इति । तच्छुत्वा राजाऽतीवव्याकुलितचित्तो व्यचिन्तयत्- पुत्रीति जाता महतीह चिन्ता कस्मै प्रदेयेति महान्वितर्कः । दत्ता सुखप्राप्स्यति वान वेति कन्यापितृत्वं खलु नाम कष्टम् ।।२२२।। नधश्च नार्यश्च सहकप्रभावास्तुल्यानि कूलानि कुलानि तासाम् । तोयैश्च दोपैश्च निपातयन्ति नद्यो हि कूलानि कुलानि नार्यः।।२२३।। तथा च जननी मनो हरति जातवती परिवर्धते सह शुचा सुहृदाम्। परसात्कृतापि कुरुते मलिनं दुरतिक्रमा दुहितरो विपदः ।।२२४।। एवं बहुविधं विचिन्त्य देवीं रहःस्थांप्रोवाच-देवि! ज्ञायतां किमेते कञ्चकिनो वदन्ति ।। कस्य कृतान्तः कुपितो येनैत. देवं क्रियते। देव्यपि तदाकर्ण्य व्याकुलीभूता सत्वरं कन्याऽन्तःपुरे गत्वा तां खण्डिताऽधरां नखविलिखितशरीरावयवां दुहितरमपश्यत् । %3D खण्डनम्=कोमलाधरे दन्तक्षतं। पुरुषोपभुक्ताया =संस्पृष्टमैथुनाया । एवंविधो व्यवहार परपुरुपसम्पर्क । देव प्रमाणम् अत्र यदुचितं तद्विदधातु भवान् । कस्मै देयेति चिन्ता, दत्तापि सुखं प्राप्स्यति नवेति वितर्क =संशयश्च भवति, अत कन्यायाजन्म महते कष्टायैवेति भाव ॥२२२॥ नार्य =स्त्रिय । आत्मदोष व्यभिचारादिभि , कुलानि=पित्रादिकुलानि नाशयन्ति, नद्यश्च तोयै स्वकूलानि तटानि नाशयन्तीति-सादृश्यं नदीनार्योंरित्यर्थ ॥ २३३ ॥ जातवती जातमात्रैव, जननीमनो हरति-स्वमातुर्मन शोकमग्नं करोति । मुहृदा वन्धूना, गुचा गोकेन सहैव, वर्धते। वर्धमाना वन्धुवर्ग चिन्ताकुल कुरुते । परसात्कृतापि वराय प्रदत्तापि । मलिनकुरुते-कुलमुभयं दूपयति । 'व्यभिचारादिदो रिति शेषः। अतो लोकाना दुहितरो नाम-पुत्र्यः खलु दुरतिक्रमा विपद । अप्रतिविवेयविपत्तिरूपा भवन्ति कन्यका इत्यर्थ ॥२२४॥ देवी स्वपट्टमहिपी । रह स्था =विजनस्थाम् । कृतान्त. कुपित =यम. कुपितः । क खलु मत्कोपकृशानुदग्धोऽचिरात्पञ्चत्वं गमिष्यतीति यावत् । नव-