पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२

  • पञ्चतन्त्रम् *

[१ मित्र- 1 तदहं मायाप्रपञ्चेन (गुप्तमाश्रित्य ? ) तं स्फोटयिष्यामि । करटक आह-भद्र ! यदि कथमपि तव मायाप्रवेशं पिङ्ग- लको ज्ञास्यति, सञ्जीवको वा, तदा नूनं ते विधात एव ।' सोऽब्रवीत्-'तात ! मैवं वद, गूढबुद्धिभिरापत्काले विधु- रेऽपि दैवे बुद्धिः प्रयोक्तव्या। नोद्यमस्त्याज्यः । कदाचिद्भुणा- क्षरन्यायेन बुद्धः साम्राज्यं भवति । उक्तञ्च- त्याज्यं न दैवे विधुरेऽपि धैर्य, धैर्यात्कदाचित्स्थितिमाप्नुयात्सः । जाते समुद्रेऽपि हि पोतभङ्गे, सांयात्रिको वाञ्छति तर्तुमेव ।।२१६।। उद्योगिनं पुरुपसिहमुपैति लक्ष्मीदेवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या, यत्ने कृते यदि नसिद्धयति कोऽत्र दोषः ॥२१॥ तदेवं ज्ञात्वा सुगूढबुद्धिप्रभावेण-यथा तौ द्वावपि न ज्ञास्यत- स्तथा-मिथो वियोजयिष्यामि। अपरञ्च-सदोधतानां देवा अपिसहायिनो भवन्ति । उक्तञ्च- प्रयुक्ता। वुद्धि =मतिस्तु-सनायक-साधिपं । राष्ट्र राज्यमपि । हन्ति=विनाश- यितुं शक्नोति ॥ २१५॥ मायाप्रवेशं मायाविनियोगम। सञ्जीवको वा-'ज्ञास्यतीति शेष। तदा तर्हि । नूनम् अवश्यम् । विघात =तव विनाश एव भविष्यति । विधुरेऽपि दैवे-विरद्धेपि भाग्ये। बुद्धि' कूटनीति , धर्मनीतिश्च । उद्यम उद्योग । घुणाक्षरन्यायेनेति । यथा-घुणो नाम कीट काष्टं भक्षयन् ककारादिवर्णतुल्या छिद्रपति कदाचिद्र- चयति, तथैव विधुरेपि काले कदाचित्कार्यसिद्धेः सम्भव इत्यागय । स्थिति समीहितसिद्धिम्। स =धीर । पोतभङ्गे-नौभङ्गे जातेऽपि । साया- त्रिक = पोतवणिक्। तर्तुमेव वाञ्छति-पुनरपि समुद्रतरणमाचरति पोतान्तरेण । तदेव वाणिज्यं पुनरपि कुरुते इत्याशय ॥२१६ ॥ तौ द्वौ सिहपभो । १. 'मायाप्रपञ्चम्' । इति पाठान्तरम् । २. 'सततमत्र समेति लक्ष्मीदेव हि दैवमिति', 'नित्योद्यतस्य पुरुषस्य भवेद्धि लक्ष्मीर्देव हि दैवमिति' इति च पाठान्तरम् ।