पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

'जम्बुको हुडयुद्धेन वयं चाऽऽपाढभूतिना । दूतिका पर कार्येण त्रयो दोपा. स्वयकृताः ।।' इति । अथ ते सभ्या ऊचुः-'भो भगवन् ! कथमेतत् ? । ततश्च देव- शर्मा तेषां त्रयाणामपि वृत्तान्तं विस्तरेणाऽकथयत् । तदाकर्ण्य सुविस्मितमनसस्ते नापितं विमोच्य मिथः प्रोचुः-अहो ! अवध्यो ब्राह्मणो वालः स्त्री तपस्वी च रोगभाक् । विहिता व्यङ्गिता तेपामपराधे मैहत्यपि ॥२१४ ॥ तदस्या नासिकाच्छेदः स्वकर्मणा हि संवृत्तः। ततो राज. निग्रहस्तु कर्णच्छेदः कार्यः। तथानुष्ठिते देवशर्मापि वित्तनाश- समुद्भूतशोकरहितः पुनरपि स्वकीय मठायतन जगाम। अतोऽह ब्रवीमि-'जम्बुको हुडयुद्धेन-'इति । करटक आह-अथैवंविधे व्यतिकरे किं कर्तव्यमावयोः।। दमनकोऽब्रवीत्-एवंविधेऽपि समये मम बुद्धिस्फुरणं भविष्यति, येन सञ्जीवकं प्रभोविश्लेषयिष्यामि । उक्तञ्च यतः- एकं हन्यान्न वा हन्यादिपुर्मुक्तो धनुष्मता । बुद्धिर्बुद्धिमत. सृष्टा हन्ति राष्ट्रं सनायकम् ।। २१५ ॥ धर्माधिकृतान् वर्माधिकरणस्थान् । साधुसमाचार =निर्दोष । महत्यपि अपरावे-तपा-ब्राह्मणादीना, व्यगिता=नासिकाच्छेदादिना विकलाङ्गता । विहिता= धर्मशास्त्रबोधिता न तु वध ॥ २१४ ॥ तत् स्त्रीत्वेनाऽवध्यत्वात् । राजनिग्रह = राजदण्ड । कर्णच्छेद =कर्णच्छेदरूप । कार्य =विधेय । वित्तनाशेति । धननाशो- द्भूतदु खरहित सन्नित्यर्थ । मठायतनं-निवासभूत स्वमठम् । व्यतिकरे व्यत्यासे । ( गडवड़ मे )। प्रभो =राज सिहात् । विश्लेषयि- यिष्यामि-भेदयिष्यामि । धनुप्मता-वानुष्केण । इपु वाण । मुक्त =क्षिप्त । एकमपि नर कदाचित् हन्यात् , कदाचिच्च न वा हन्यात् । लक्ष्याच्युतश्चेत्-एक- मपि न हन्यादित्यर्थ । परन्तु वुद्धिमत =नीतिकुशलात् । सृष्टा-उदूता, कुशल- , गरीयसि' । २ 'स्वकर्मवशादेव नासिकाछेद । ३ 'दृष्टान्तद्वयेन स्वहृदय सस्थाप्य स्वकीयमठायतनम् । ४ 'बुद्धिमता' ।