पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

3 अन्यच्च- यद्यपि न भवति दैवात्पुमान्विरूपोऽपि बन्धकी रहसि । भव्यमपि तदपि कष्टान्निजकान्तं सा भजत्येव ।।१९२।। साऽब्रवीत्-'यद्यव-तर्हि कथय-कथं दृढवन्धनैर्वद्धा सती तत्र गच्छामि ?', संनिहितश्चायं पापात्मा सत्पतिः।' नापित्याह-'सखि । मदविह्वलोऽयं सूर्यकरस्पृष्टः प्रबोधं यास्यति, तदहं त्वामुन्मोचयामि, मामात्मस्थाने बवा' द्रुततरं देवदत्तं सम्भाव्याऽऽराच्छ ।' साऽब्रवीत्-'एवमस्तु'-इति । तदनु सा नापिती तां स्वसखीं बन्धनाद्विमोच्य तस्याः स्थाने यथापूर्वमात्मान बद्धवा तां देवदत्तसकाशे सङ्केतस्थानं प्रेषितवती। तथाऽनुष्ठिते-कौलिकः कस्मिंश्चित्क्षणे समुत्थाय किचिद्गत- कोपो विमदस्तामाह-हे परुपवादिनि ! यदद्य प्रभृति गृहान्नि- एक्रमणं न करोपि, न च परुपं वदसि, ततस्त्वामुन्मोचयामि ।' नापित्यपि स्वरभेदभयाद्यावन्न किंचिदूचे, तावत्सोऽपि भूयो भूयस्तां तदेवाऽऽह । अथ सा यावत्प्रत्युत्तरं किमपि न ददौ, तावत्स प्रकुपितरतीक्ष्णशस्त्रमादाय तस्या नासिकामच्छिनत् । आह च-'रे पुंश्चलि ! तिष्ठेदानी, न त्वा भूयस्तोषयिष्यामि' । इति जल्पन्पुनरपि निद्रावशमगमत् । यद्यपीति । भव्यं-सुन्दर स्वपति । निजकान्तं-स्वप्रियं । विरूपोऽपि जार कुलटाना प्रिय , न तु सुन्दरोऽपि निजपतिरित्यर्थ ॥१९२॥ मदविहल =मदवि- कल । ('नशे में चूर') । सूर्यकरस्पृष्ट , प्रभाते सूर्यकिरणसपर्कादेव । प्रबोध चेतनाम् । तत् तस्मात् । माम् नापिती,दूतीम् । सा=पुंश्चली। (एवमस्तु-अच्छा)। तदनु-तदनन्तरम् । स्वसखी कोलिकीम् । परुप-क्रूरम् । स्वरभेदभयात्= स्वस्वरभेदभीता। तदेव-तदेव वाक्यम् । भूय =अविकम् । (अव और ज्यादा)। न तोपयिष्यामि-न चाटुशब्दं कथयिष्यामि । ( अब मे तेरी और खुशामद नहीं