पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२

  • पञ्चतन्त्रम् *

[१मित्र- तामाह-'पुंश्चलि ! चिरकालं श्रुतो मया तवाऽपवादः। तदद्य स्वयं सञ्जातप्रत्ययस्तव यथोचितं निग्रहं करोमि।' इत्यभि धाय लगुडमहारैस्तां जर्जरितदेहां विधाय स्थूणया सह दृढ- बन्धनेन बद्धा सोऽपि मदविह्वलाङ्गो निद्रावशमगमत् । अत्राऽन्तरे तस्याः सखी नापिती कौलिक निद्रावशगतं विज्ञार्य .तां गत्वेदमाह-'सखि ! स देवदत्तस्तस्मिन्स्थाने त्वां प्रतीक्षते, तच्छीघ्रसागम्यताम्'-इति । सा चाह-'पश्य ममाऽवस्थां, तत्क- थं गच्छामि, तद्गत्वा ब्रूहि तं कामिनं, यदस्यां रात्रौ त त्वया सह समागमः ।' नापिती प्राह 'सखि ! मा मैवं वद, नायं कुलटाधर्मः । उक्तञ्च- विषमस्थस्वादुफलग्रहणव्यवसायनिश्चयो येपाम् । उष्ट्राणामिव तेषां मन्येऽहं शंसितं जन्म ॥१९॥ तथा च- सन्दिग्धे परलोके जनापवादे च जगति बहुचित्रे । स्वाधीने पररमणे धन्यास्तारुण्यफलभाजः ॥ १९१॥ स =कौलिक । प्रतिकूलवचन=विरुद्धकरवाक्यं । पुंश्चलि परपुरुपरते । तस्मिन्स्थाने सङ्केतस्थले । सञ्जातप्रत्यय =जातविश्वास । निग्रह-दण्डविधानम, ताडनम् । ता-स्वभार्याम् । स्थूणया स्तम्भेन । । 'खम्भे से' 'थूणी से' )। अन्तरे-अवसरे । ( इस बीच में )। तस्या = कौलिकभार्याया । ता कौलिक- पत्नीम् । स =त्वत्प्रिय । तस्मिन्-पूर्व सङ्केतिते । सा-कोलिकजाया। समागमो न। 'सम्भवतीति गेष । विषमस्थेति । यथा-दुर्गमस्थानस्थितस्वादुफलपल्टवादिग्रह्णव्यापारनिश्चय उष्ट्राणां स्वभाव । तथा-दुर्लभचोर्यरतानन्दानुभवव्यापारनिश्चय. कुलटाना सहजो धर्म । येपा-कुलटाजनाना, व्यवसायिना, चोराणाञ्च । गसित-पूजितम् ॥१९०॥ परलोके किं भवितेति न निश्चय , जनापवादस्तु बहुविधश्चलत्येव, एवं च स्वाधीनेन पररमणेन जारेण, यौवनफल-सुरतं, धन्या एव कामिन्यो लभन्ते । ता एव धन्या इत्यर्थ ॥ १९१ ॥ १ 'विज्ञायाऽऽगत्य चेदमाह' । २ 'गम्यताम् ।