पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद.]

  • अभिनवराजलक्ष्मीविराजितम् *

no ग्रामादभ्यागतां सम्भाव्य द्रुतमागच्छामि तावत्त्वयाऽस्मद्गृहेऽ- प्रमत्तेन भाव्यम्।" एवमभिधाय शृङ्गारविधि विधाय यावहेवदत्तमुद्दिश्य व्रज ति-तावत्तद्भर्ता संमुखो मदविह्वलाङ्गो मुक्तकेशः पदे पदे प्रस्ख. लन्गृहीतमद्यभाण्डः समभ्येति । तं च दृष्ट्वा सा द्रुततरं व्याघु ट्य-स्वगृह प्रविश्य मुक्तङ्गारवेषा यथापूर्वमभवत् । कौलिकोऽपि तां पलायमानां कृताऽद्रुतशृङ्गारां विलोक्य प्रागेव कर्णपरम्परया तस्या अपवादश्रवणात् क्षुभितहृदयः स्वा- कारं निगृहमानः सदैवाऽऽस्ते । ततश्च तथाविध चेष्टितमव. लोक्य दृष्टप्रत्ययः क्रोधवशगो गृहं प्रविश्य तामुवाच-'आः पापे पुंश्चलि ! क्व प्रस्थितासि' ? । साप्रोवाच-अहं त्वत्सकाशादागता न कुत्रचिदपि निर्गता, तत्कथं मद्यपानवशादप्रस्तुतं वदसि ? । अथवा साधु चेमुच्यते- वैकल्यं धरणीपातमयथोचितैजल्पनम् । सन्निपातस्य चिह्नानि मद्यं सर्वाणि दर्शयेत् ॥ १८८ ।। करस्पन्दोऽम्बरत्यागस्तेजोहानिः सरागता । वारुणीसङ्गजाऽवस्था भानुनाऽण्यनुभूयते ॥ १८९ ।। सोऽपि तच्छुत्वा प्रतिकूलवचनं वेषविपर्ययं चाऽवलोक्य विधाय । अप्रमत्तेन-सावधानेन । देवदत्त-स्वप्रियं कश्चित् । व्याघुटय-परावृत्य । ( 'बावड कर' 'लौट कर' ) । श्रुतेन अपवादेन क्षुभितं हृदयं यस्यासौ तथा स्वपत्नीचरित्रभ्रंशवृत्तान्तश्रवणक्षुब्धयमानचेता । स्वाकार स्वमनोभावं । निगू- हमान =गोपायन् । दृष्टप्रत्यय जातविश्वास । वैकल्य-विकलता। मद्येन सन्नि- पातरोगलक्षणानि भूमिपतनादीनि सर्वाणि भवन्तीत्यर्थ ॥ १८८ ॥ करेति । वारुणी-पश्चिमदिशा, मद्यञ्च । सङ्ग-तत्र गमन, पातश्च । करस्पन्द =हस्तकम्प , किरणह्रासश्च । 'करसादः' इत्यपि पाठ । अम्वरत्याग = गगनत्याग, वस्त्रमोचनञ्च। तेजोहानि कान्तिहानि । सरागता लौहित्यवत्ता- मुखे, मण्डले च । भानु =सूर्य ॥ १८६ ॥ १ 'कृतशृङ्गाराम्'। २ 'श्रुतापवादक्षुभितहृदय'। ३ 'नित्यानुचितजल्पनम्। ४ 'करसाद ।