पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेदः]

  • अभिनवराजलक्ष्मीविराजितम् *

क्षणान्तरे च तथैव रक्तास्वादनलौल्यान्मध्ये प्रविशंस्तयोः शिरः- संपाते पतितो मृतश्च शृगालः । ततो देवशर्मा प्राह-'जम्बुको हुडुयुद्धेन' इति । देवशर्मापि तं शोचमानो मात्रामुद्दिश्य शनैः शनैः प्रस्थितो यावदाषाढभूतिं न पश्यति ततश्चौत्सुक्येन शौचं विधाय यावत्क स्थामालोकयति तावन्मात्रां न पश्यति । ततश्च 'हा । हा ! मुषितोऽस्मि'-इति जल्पन्पृथिवीतले मूच्र्छया निपपात । ततः- क्षणाचेतना लब्ध्वा भूयोऽपि समुत्थाय फूत्कर्तुमारब्धः-'भो आषाढभूते ! क मां वञ्चयित्वा गतोऽसि ।' देहि मे प्रतिवचनम्।' एवं बहु विलप्य तस्य पदपद्धतिमन्वेपयन् 'वयं चाऽऽषाढ- भूतिना' इति प्रजल्पञ्छनै -शनैः प्रस्थितः। अथैवं गच्छन्सायन्तनसमये कश्चिद्राममाससाद । अथ तस्माद्रामात्कश्चित्कौलिकः सभार्यो मद्यपानकृते समीपवर्तिनि नगरे प्रस्थितः । देवशर्मापि तमालोक्य प्रोवाच-'भो भद् वयं सूर्योढा अतिथयस्तवान्तिकं प्राप्ताः, न कमप्यत्र ग्रामे जानीमः, तद्गृह्यतामतिथिधर्मः । उक्तञ्च- अप्रणाय्योऽतिथिः सायं सूर्योढो गृहमेधिनाम् । पूजया तस्य देवत्वं प्रयान्ति गृहमेधिनः ।। १८१ ।। तथा च-तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता । सतामेतानि हर्येषु नोच्छिद्यन्ते कदाचन ।। १८२॥ स्वागतेनाऽग्नयस्तैप्ता आसनेन शतक्रतुः । पादशौचेन पितरो ार्धाच्छम्भुस्तथाऽतिथेः ।। १८३ ।। संघट्टे-सम्म । शिर संपाते-शिर -संघट्टे । ('टक्कर में')। फूत्कर्त-रोदितुं । कौलिक =तन्तुवाय । ('जुलाहा' 'कोली' )। सूर्योढ -सूर्यास्तमनवेलाया प्राप्त । 'अप्रणाय्य'माननीय । तृणानि पलाल-कटादीनि । ('पुआल' 'चटाई')। १ 'अथान्यस्मिन्प्रस्तावे तथैव रक्तास्वादनलोल्यान्नापसृतस्तयो' । २ 'सप्राप्तो योऽ ३ 'प्रीता'। ४ 'गोविन्दो ह्यन्नाद्येनप्रजापतिरिति । ५'पितरस्तया_दतिथे शिव' इति च सुन्दर पाठो लिखितेषु । तिथिः ।