पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८

  • पञ्चतन्त्रम् *

[१ मित्र-- 5

अथैवं गच्छति काले आषाढभूतिश्चिन्तयामास-'अहो! न कथञ्चिदेष मे विश्वासमागच्छति, तकि दिवापि शस्त्रेण मार- यामि, ? किंवा विषं प्रयच्छामि, ? किवा पशुधर्मेण व्यापाद- यामि' ?-इति । एवं चिन्तयतस्तस्य देवशर्मणोऽपि शिष्यपुत्रः कश्चिद्रामादामन्त्रणार्थ समायातः । प्राह च-भगवन् ! पवित्रा- रोपणकृते मम गृहमागम्यताम्'-इति। तच्छ्रुत्वा देवशर्मा आपाढ- भूतिना सह प्रहृष्टमनाः प्रस्थितः । अथैवं तस्य गच्छतोऽग्रे काचिन्नदी समायाता । तां दृष्ट्वा मात्रां कक्षान्तरादवतार्य, कन्थामध्ये सुगुप्तां निधाय, स्नात्वा, देवार्चनं विधाय, तदनन्तरमाषाढभूतिमिदमाह-भो आपाढभूते ! यावदहं पुरीपोत्सर्ग कृत्वा समागच्छामि, तावदेषा कन्था योगे- श्वरस्य सावधानतया रक्षणीया'-इत्युक्त्वा गतः । आषाढभूतिरपि तस्मिन्नदर्शनीभूते मात्रामादाय सत्वरं प्रस्थितः । देवशर्मापि छात्रगुणानुरञ्जितमनाः सुविश्वस्तो यावदु- पविष्टस्तिष्ठति तावडुड़ें-(सुवर्णरोमदेह)-यूथमध्ये हुड्डुयुद्धमपश्यत्। अथ रोपवशा डयुगलस्य-दूरमपसरणं कृत्वा भूयोऽपि समुपेत्य ललाटपट्टाभ्यां प्रहरतोभूरि रुधिरं पतति, तँच्च जम्वुको जिह्वालौल्येन रङ्गभूमि प्रविश्याऽऽस्वादयति । देवशर्मापि तदालो- क्य व्यचिन्तयत्-अहो! मन्दमतिरयं जम्बुकः, यदि कथमप्य- नयोः संघट्टे पतिष्यति तन्नूनं मृत्युमवाप्स्यतीति वितर्कयामि ।' दिसेवया । तं देवशर्माणम् । दिवापि दिन एव । पशुधर्मेण-गलमुखावरोधेन । ( गला घोट कर )। आमन्त्रणार्थ निमन्त्रणार्थ । पवित्रारोपणार्थ-तदाख्योत्स- वसम्पादनाय । देवस्य पवित्रारोपणमहोत्सवो भवति शैववैष्णवादीनाम् । कन्या- मध्ये वस्त्रमध्ये। ('झोली में 'गुदडी में')। देवार्चन कन्थानिहितस्वष्टदेवशिवार्चनं। प्रतिवचनम् उत्तरम्। योगेश्वरस्य शिवस्य । हुडु =मेष । रङ्गभूमि-युद्धभूमि । १ 'देवशर्मशिष्यपुत्र'। २ 'पवित्रारोपणविषये मम गृहम् । ३ 'योगेश्वरश्च सावधानेन रक्षणीया' । पा०।४ हुडो हुडुश्च भेडश्चेति हैमाद्भुड इत्यादि पाठ शुद्ध एव । ५'तच दृष्ट्वाऽऽ शाप्रतिबद्धचित्त विशितलोलुपतया गोमायुम्तयोरन्तरे स्थित्वा रुधिरमास्वादयति ।' पा० ।