पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद:].

  • अभिनवराजलक्ष्मीविराजितम् *

1 पडक्षरेण मन्त्रेण पुष्पमेकमपि स्वयम् । लिङ्गस्य मूर्ध्नि यो दद्यान्न स भूयोऽपि जायते ॥ १७९ ।। तच्छ्रुत्वा आपाढभूतिस्तत्पादौ गृहीत्वा सप्रश्रयमिदमाह-भग- वन् ! तर्हि दीक्षया मेऽनुग्रहं कुरु ।' देवशर्मा आह-'वत्स ! अनुग्रह ते करिष्यामि, परन्तु रात्री त्वया मठमध्ये न प्रवेष्टव्यं । यत्कारणं-निःसङ्गता यतीनां प्रशस्यते, तव च ममापि च । उक्तञ्च यतः- दुर्मत्रान्नृपतिविनश्यति, यतिः सगात्सुतो लालना- द्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् । मैत्रीचाऽप्रणयात्समृद्धिरनयात्स्नेहः प्रवासाश्रया- स्त्री गर्वादनवेक्षणादपि कृपिस्त्यागात्प्रमादाद्धनम् ।।१८०॥ तत्त्वया व्रतग्रहणानन्तरं मठद्वारेतृणकुटीरके शयितव्यम्'-इति। स आह-'भगवन् ! भवदादेशः प्रमाणं, परत्र हि तेन मे प्रयोजनम् ।' अथ कृतशयनसमयं देवशर्मा दीक्षाऽनुग्रहं कृत्वा शास्त्रोक्त- विधिना शिष्यतामनयत् । सोऽपि हस्तपादावमर्दनेन, पत्रिकान- यनादिकया च परिचर्यया त परितोषमनयत् । पुनस्तथापि मुनिः कक्षान्तरान्मात्रां न मुञ्चति । -- षडक्षरेण मन्त्रेण न जायते न पुनरपि गर्भयातनामनुभवति । पादौ गृहीत्वा प्रणम्य । सप्रश्रयं सस्नेहम् । दीक्षया-तदाख्येन संस्कारेण । गर्वात् रूपादिगर्वात् । त्यागात् अतिदानात् । प्रमादात् अनवधानाच-धन नश्य- तीत्यर्थ ॥ १८० ॥ व्रतग्रहण-दीक्षाग्रहणं । भवदादेश =भवदाज्ञा । परत्र-पर- लोके । तेन भवदादेशेन । प्रयोजन कार्य-स्वर्गादिफलं-भविष्यतीत्याशय. । पत्रिका बिल्वपत्रम् । कृत शयनस्य समयो येन तं-कृतवहिश्शयनप्रतिज । अनुग्रहं-कृपा । देवशर्मा स्वशिष्यता ग्राहयामास । हस्तपादावमर्दनादिपरिचर्यया पादसंवाहना- १'व्रतदानेन मे प्रसाद क्रियताम् । इति' । २. 'अवमर्दनादिपरिचर्यया' । पा.