पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

एवमुक्त्वा सकलमृगपरिवृतो यमुनाकच्छमवतीर्य प्रकाम- मुदकपानावंगाहनं कृत्वा स्वेच्छया पुनस्तदेव वनं प्रविष्टः। ततश्च करदकदमनकनिक्षिप्तराज्यभारः, सञ्जीवकेन सह सुभाषित- गोष्ठीमनुभवन्नास्ते । अथवा साध्विमुच्यते- यदृच्छयाऽप्युपनतं सकृत्सज्जनसङ्गतम् भवत्यजरमत्यन्तं नाऽभ्यासक्रममीक्षते ॥ १६२ ।। सञ्जीवकेनाप्यनेकशास्त्रावगाहनादुत्पन्नवुद्धिप्रागल्भ्येन स्तो. कैरेवाऽहोभिर्मूढमतिः पिङ्गलको धीमान् (तथा-) कृतः । (यथा) अरण्यधर्माद्वियोज्य प्रास्यधर्मेषु नियोजितः। कि बहुना-प्रत्यहं पिङ्गलकसओवकावेव केवलं रहसि मन्त्रयतः, शेषः सर्वोऽपि मृगजनो दूरीभूतस्तिष्ठति, करटकदमनकावपि प्रवेशं न लभेते । अन्यच्च सिहपराक्रमाऽभावात्सर्वोऽपि मृगजनस्तौ च शृगालो 'क्षुधाव्याधिवाधिता एका दिशमाश्रित्य स्थिताः । उक्तञ्च- फलहीनं नृपं भृत्याः कुलीनसपि चोन्नतम् । सन्त्यज्याऽन्यत्र गच्छन्ति शुष्कं वृक्षमिवाऽण्डजाः ।।१६३।। निपेवितं-परिवृतम , आश्रितम् । गुरूणा-महता, सत्त्वाना-व्याघ्रादीनाम् । एवम् इत्थम् । उक्त्वा सञ्जीवकायाऽभयवाच दत्त्वा । सकलमृगपरिवृत सकलपशुगणपरिवृत । 'मृग. पशौ कुरङ्गे च करि-नक्षत्रभेदयो । अन्वेषणाया याच्नाया मिति विश्व । सुभापितगोष्टीसुख काव्यालापगोष्ठीसुखम् ॥ यदृच्छयेति । यदृच्छया अकस्मात् । उपनत प्राप्तं । सकृत्-एकवारम् । सजनसङ्गत-सज्जन- सङ्गम । अत्यन्त-नितराम् । अजरं-दृढम् भवति । अभ्यासक्रम-पौन. पुन्येन सङ्गतम् । नेक्षते-न प्रतीक्षते ॥१६२॥ अनेकशास्त्रावगाहनात्-नानाशास्त्राभ्यासात् । स्तोकै =अत्पै । मूढमति : मूर्ख । पिझलक = तन्नामा स सिंह । धीमान् विवेकी । अरण्यधर्मात् पशुव- धाटे । ग्राम्यधर्मेषु दयाकारुण्यादिपु । बहुना गदितेन कि प्रयोजनं-संक्षिप्य कथयामीत्यर्थ । रहसि विजने । मृगजन =व्याघ्रकादि । क्षुधारूपेण व्याधिना- 1 १ 'ग्दकग्रहण'।