पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- दिभिः संयोज्य स्वाधिकारे नियोजयामास । अतोऽहं ब्रवीमि 'यो न पूर्जयते गर्वात्'--इति । सञ्जीवक आह-'भद्र ! एवमेवैतत् , यद्भवताऽभिहितं तदेव मया कर्तव्यम्'-इति । एवमभिहिते दमनकस्तमादाय पिङ्गलकसकाशमगमत् । आह च-'देव ! एष मयाऽऽनीतः स सञ्जीवकः, अधुना देवः प्रमाणम् ।' सञ्जीवकोऽपि तं सादर प्रणम्याऽग्रतः सविनय स्थितः । पिङ्गलकोऽपि तस्य पीनीयतककुमतो नखकुलिशालङ्कृत दक्षिणपाणिमुपरि दत्त्वा संमानपुरःसरमुबाच-'अपि शिवं भक्तः?' कुतस्त्वमस्मिन्वने विजने समायातोऽसि । तेनाप्या त्मवृत्तान्तः कथितः, यथा सार्थवाहेन वर्धमानेन सह वियोगः सातस्तथा सर्व निवेदितम् । एतच्छ्रुत्वा पिङ्गलकः सादरतरंतमुवाच वयस्य ! न भेतव्यं, मगुजपञ्जरपरिरक्षितेऽस्मिन् वने यथेच्छंत्वयाऽधुनावर्तितव्यम् । अन्यच्च-नित्यं भवता मत्समीपवर्तिना भाव्यं, यतः कारणात् बह्वपायं रौद्रसत्त्वनिषेवितं वनं गुरूणामपि सत्त्वानामसेव्यं, कुतः शप्पभोजिनाम् ।' इति । लोककार्याणि । विमृश्य-विचार्य। एवमेवैतत्-यथा भवानाह तत्तथैव । अभि- हिते-उक्ते सति । तं-सञ्जीवकम् । स =शिवाऽनुचरो वली । अधुना-सम्प्रति कर- णीयेषु । प्रमाण-प्रभु । अग्रे यत्कर्त्तव्यं तदनुतिष्टतु भवान् । ('आगे आप जो उचित समझें करें)। तं-सिम् । सविनयं-सादरम् । विनयावनत । तस्य सञ्जीवकस्य । पीना स्थूला, आयता=विपुला च ककुद्यस्यासौ-पीनायतककुयान्, तस्य। 'उपरीति सम्बध । 'अथ ककुत् स्त्रियाम्, पुंसि चोक्ष्ण स्कन्धदेशे' इति केशव । 'पीनवृत्तायत मिति पाठे दक्षिणपाणिविशेषणमेतत् । पीन पीवर । (मोटा) वृत्त =वर्तुल । आयत =दीर्घ । नखान्येव कुलिशानि, तैरलकृतम् । शिव- कल्याणम् । विजने-निर्जने। तेन ऋषभेण । पञ्ज गलाकागृहं ('पिञ्जरा')। (यत कारणात् इस लिए कि)। वह्वपायं-विपत्तिबहुलम्। रौद्र =क्रूरै । सत्त्वै =जन्तुभि । १ 'न पूजयति यो गर्वात्' । २ 'पीनवृत्तायत' । ३ 'परिरक्षितेन' पा० ।