पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

४९ स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् । अहो ! सुसहशी चेष्टा तुलायप्टेः खलस्य च ॥ १६१ ।। ततश्चान्येयुः स गोरम्भो राजकुले गत्वा योगनिद्रां गतस्य भूपतेः संमार्जनक्रियां कुर्वनिमाह-'अहो ! अविवेकोऽस्मद्भू पतेः, यत्पूरोषोत्सर्गमाचरंश्चिर्भटीभक्षणं करोति ।" तच्छुत्वा राजासविस्मयं तमुवाच-रेरे गोरम्भ! किमप्रस्तुत लपसि। गृहकर्मकरं मत्वा त्वां न व्यापादयामि, कि त्वया कदाचिदह- मेवंविधं कर्म समाचरन्दृष्टः ?' । सोऽब्रवीत्-'देव ! द्यूतासक्त तया रात्रिजागरणेन सम्मार्जनं कुर्वाणस्य मम बलान्निद्रा समा याता, तयाऽधिष्ठितेन मया किंस्विजल्पितं, तन्न वेनि । तत्प्रसादं करोतु स्वामी मम निद्रापरवशस्य'-इति। एवं श्रुत्वा राजा चिन्तितवान् -'यन्मया आजन्मतोऽपि पुरीपोत्सर्ग कुर्वता कदापि चिर्भटिका न भक्षिता। तद्यथाऽयं व्यतिकरोऽसंभाव्यो ममाऽनेन मूढेन व्याहृतः, तथा दन्तिलस्या- ऽपीति निश्चयः । तन्मया न युक्तं कृतं यत्स वराकः सम्मानेन वियोजितः। न तादृक्पुरुषाणामेवंविधं चेष्टितं संभाव्यते । तद्भा- वेन राजकृत्यानि पौरकृत्यानि च सर्वाणि शिथिलतां व्रजन्ति । एवमनेकधा विमृश्य दन्तिलं समाहूय निजाङ्गवस्त्राभरणा- मया दृष्ट । तत्-अपमानकारि त्वदीयं चेष्टितम् । उन्नति प्रसन्नताम्, औन्न- त्यञ्च । अधोगति-वैरं, नीचैर्गतिञ्च । सुसदृशी नितरा तुल्या । चेष्टा व्यवहार । तुलायष्टे -तुलादण्डस्य । (तराजू )। खलस्य-नीचस्य, पिशुनस्य च ॥१६१॥ अन्येद्यु =अपरदिने । अविवेक =अनुचितकारित्वं । पुरीपोत्सर्ग=मलोत्सर्ग । चिर्भटीभक्षणं-कर्कटीभक्षणं ('टट्टी में बैठकर ककडी खाता है')। सविस्मयं- साश्चर्यम् । अप्रस्तुतम् अनुचितं । व्यापादयामि मारयामि । एवंविध-मलोत्सर्ग- समये चिर्भटीभक्षण । जन्मान्तरे जन्मत आरभ्याऽद्य यावत् । व्यतिकर सम्व- न्ध । आचारवैपरीत्यं वा (गड़वडी)। वराक =दीन ('वेचारा गरीव' ) । समा- नेन राजसत्कारेण । तदभावेन-दन्तिलागमनविरहेण । पौरकृत्यानि पुरवासि- १ अत्र 'जन्मान्तरे' इति पाठस्तु नातीवोचित । २ 'विनिश्चित्य' । ४