पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- राजसम्बन्धिनः स्वप्नेऽपि नाऽनिटं कृतम् , तत्किमिति पराङ्मुखो मां प्रति भूपतिः' ?-इति । एवं तं दन्तिलं कदाचिद्राजद्वारे विष्कम्भितं विलोक्य संमा- जनकर्ता गोरम्भो विहस्य द्वारपालानिदमूचे-'भोभोद्वारपालाः! राजप्रसादाऽधिष्ठितोऽयं दन्तिल' स्वयं निग्रहाऽनुग्रहकर्ता च । तदनेन निवारितेन यथाऽहं तथा यूयमप्यर्धचन्द्रभागिनो भविष्यथ'। तच्छुत्वा दन्तिलश्चिन्तयामास-'नूनमिदमस्य गोरम्भस्य चेष्टितम् । अथवा साध्विदमुच्यते- अकुलीनोऽपि मूर्योऽपि भूपालं योऽत्र सेवते । अपि संमानहीनोऽपि स सर्वत्र प्रपूज्यते ।। १५९ ।। अपि कापुरुपो भीर: स्याञ्चेन्नृपतिसेवकः । तथापि न पराभूतिं जनादाप्नोति मानवः' ।। १६० ।। एवं स बहुविध विलप्य विलक्षमनाः सोद्वेगो गतप्रभावः स्वगृहं गत्वा निशामुखे गोरम्भमाहूय वस्त्रयुगलेन संमान्येद मुवाच-'भद्र ! मया न तदा त्वं रागवशान्निःसारितः। यतस्त्वं ब्राह्मणानामग्रतोऽनुचितस्थाने समुपविष्टो दृष्ट इत्यपमानितः, तत्क्षम्यताम् ।' सोऽपि स्वर्गराज्योपमं तद्वस्त्रयुगलमासाद्य परं परितोषं गत्वा तमुवाच-'भोः श्रेष्ठिन् ! क्षान्तं मया ते तत् , तदस्य सन्मानस्य कृते पश्य मे बुद्धिप्रभावं राजप्रसाद च ।' एवमुक्त्वा सपरितोषं निष्क्रान्तः । साधु चेदमुच्यते- तत्त्वचिन्ता-विवेक । विष्कम्भित द्वारपालनिवारितम् । ('दर्वाजे पर रोके गये')। राजप्रसादाधिष्ठित राजानुगृहीत । अर्धचन्द्रभागिन =अनेन स्वाधिका राच्याविता भविष्यथ । सोपहास सेय॑ञ्च वाक्यमेतत्स्वापमानस्मारणाय गोरम्भण प्रयुक्तम् । इदं-राजविरागजननं । कापुरुष -नीच ॥ १६० ॥ विलक्षमना =लज्जित । सोद्वेगः शोकाकुल । गतप्रभाव -निग्रहाऽनुग्रह- सामर्थ्यरहित । तदा कन्याविवाहकाले। रागवशात् वैरानुवन्धात् , क्रोधाच्च। दृष्ट = १ 'अस्य प्रसादस्याऽचिरादेव द्रक्ष्यसि राजप्रसादादि फल मिति लिखिते पाठ ।