पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

४७ अलक्तको यथा रक्तो निष्पीड्य पुरुषस्तथा । अबलाभिर्बलाद्रक्तः पादमूले निपात्यते' ।। १५६ ।। एवं स राजा बहुविधं विलप्य तत्प्रभृति दन्तिलस्य प्रसाद- परामुखः सञ्जातः । किं बहुना-राजद्वारप्रवेशोऽपि तस्य निवारितः। दन्तिलोऽप्यकस्मादेव प्रसादपराङ्मुखमवनिपतिमवलोक्य चिन्तयामास-'अहो ! साधु चेदमुच्यते- कोऽर्थान्प्राप्य न गर्वितो, विपयिण' कस्यापदोऽस्तङ्गताः ? स्त्रीभिः कस्य न खण्डितं भुवि मनः, को नाम राज्ञां प्रियः? । कः कालस्य न गोचरान्तरगतः, कोऽर्थी गतो गौरवं, ? को वा दुर्जनवागुरासु पतित. क्षेमेण यात' पुमान् ? ॥१५७।। तथा च- काके शौचं द्यूतकारे च सत्यं सर्प क्षान्तिः स्त्रीषु कामोपशान्तिः । क्लीबे धैर्य मद्यपे तत्त्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ? ॥१५८।। अपरं-मया अस्य भूपतेः, (अथवा) अन्यस्यापि कस्यचित् दशालम्बी-कामदशामूढ , धृष्यते-पीड्यते । नानाविधैर्वाक्यैर्मर्कटवनिदेशं कार्यते चेत्यर्थ । धृष्यते' इति पाठ ॥ १५५ ॥ यथा रक्तोऽलक्तक -यावक्र , ( यावक-महावर' 'मेहदी' 'अलता') । निष्पीड्य=नितरा पीडयित्वा, अवलाभि-पादमूले-पादप्रान्ते। चिपात्यते-संयोज्यते, निक्षिप्यते च एवमनुरक्त पुमानपि प्रमदाभि पादयोर्निपात्यते-तिरस्क्रियते ॥१५६॥ विलप्य=विलापं कृत्वा । प्रसादपराङ्मुख =विरक्त । अर्थान् धनं प्राप्य । को न गर्वित । सर्वोपि गर्वितो भवति । विषयिण -विषयलम्पटस्य कस्य पुंस, आपद विपत्तय , अस्तङ्गता =विनष्टा 2 । न कस्यापि । खण्डित-विकृतिमापा- दितम् । कालस्य-मृत्यो, गोचरान्तरगत =विषयीभूत , अर्थी याचक , दुर्जनाना वागुरासु-जालेषु । 'वागुरा मृगवन्धनी'त्यमर । पतित =अपतित ('फंसा हुआ)। क्षेमेण कुशलेन । को यात =को निर्यात १ (कौन निकला है 2)।१५७। काके वायसे । गौचं शुद्धि । क्षान्ति =क्षमा । क्लीवे कातरे। धैर्य-साहसं।