पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६

  • पञ्चतन्त्रम् *

[१ मित्र- रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः । तेन नारद ! नारीणां सतीत्वमुपजायते ॥१४९ ॥ यो मोहान्मन्यते मूढो 'रक्तेयं मम कामिनी'। स तस्या वशगो नित्यं भवेत्क्रीडाशकुन्तवत् ॥ १५०।। तासां वाक्यानि कृत्यानि स्वल्पानि सुगुरूण्यपि । करोति, यैः कृतैर्लोके लघुत्वं याति सर्वतः ।। १५१ ।। स्त्रियञ्च यः प्रार्थयते सन्निकर्षञ्च गच्छति । ईषच्च कुरुते सेवां तमेवेच्छन्ति योपितः ॥ १५२ ।। अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च । मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति सर्वदा ।। १५३ ।। नासां कश्चिद्गम्योऽस्ति नासाञ्च वयसि स्थितिः । विरूपं रूपवन्तं वा 'पुमा नित्येव भुञ्जते ।। १५४ ।। रक्तो हि जायते भोग्यो नारीणां शाटको यथा । धृष्यते यो दशालम्बी नितम्ब विनिवेशितः ॥ १५५ ।। रह एकान्तं स्थानं, नास्ति न लभ्यते । क्षण =अवसर । प्रार्थयिता=कामुक । तेन तेनैव ॥१४९॥ मोहात्-मौात् ,मूढ =मूर्ख,मम ममोपरि, रक्ता अनुरक्ता। इत्थं यो मन्यते स तस्या प्रमदाया , क्रीडाया , शकुन्त =पक्षी शुकादि,तद्वत् । ('हाथकी कठपुतली' खिलौना ) ॥ १५० ॥ लोक तासा स्वल्पान्यपि वाक्यानि, सुगु रूणि कृत्यानि च करोति । तेन च सर्वतो, लघुत्वं लाघवं याति ॥ १५१ ॥ संनिकर्ष सामीप्यम् । ईषत-किञ्चिदिव ॥१५२॥ अनथित्वादिति । अर्थिना- कामुकानामभावात्, परिजनस्य-वन्धुवर्गादे ,मर्यादाया कुलधर्मपालने, अमर्यादा = मर्यादाशून्या , प्रोद्दामदर्पा प्रमदा ॥१५३॥ न वयसि स्थिति =नाऽवस्यायामा- स्थाऽस्ति । बालोऽयं वृद्धोऽयमिति विचारो नास्तीत्यर्थ । 'पुमानय मित्येव दृष्ट्वा, भुजते सेवन्ते । यद्वा आमा यौवनवार्धक्ययोर्भेदो नास्तीत्यर्थ. ॥ १५४ ॥ रक्त इति । रक्त =अनुरक्त, मञ्जिष्टादिना रक्तश्च । भोग्य उपयोगार्ह, धारणयोग्यश्च । शाटक-वस्त्र विशेष 'साड़ी')। य शाटक , दशालम्बी- प्रान्तभागावलम्बन , ('किनारी') नितम्वे-कटिपश्चाद्भागे, विनिवेशित =स्थापितः सन् , घृष्यते धर्पणेन पीड्यते, एवमनुरक्त पुमानपि नितम्बमारुढ जघनारूढ ,