पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

४५ अथवा स्त्रीणां विषये कोऽत्र सन्देहः- जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः । हृद्तं चिन्तयन्त्यन्यं-प्रियः को नाम योपिताम् ! ।।१४६।। अन्यच्च- एकेन स्मितपाटलाऽधररुचो जल्पन्त्यनल्पाक्षर बीक्षन्तेऽन्यमितः स्फुटत्कुमुदिनीफुल्लोल्लसल्लोचनाः । दूरोदारचरित्रचित्रविभवं ध्यायन्ति चाऽन्यं धिया केनेत्थं परमार्थतोऽर्थवदिवप्रेमाऽस्ति वामभ्रुवाम् ?।।१४७॥ तथाच- नाऽग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नाऽन्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥१४॥ जल्पन्तीति । अन्येन सह भापन्ते,अन्य कटाक्षादिविभ्रमेण पश्यन्ति,हृदि अन्य चिन्तयन्ति, स्वभावचञ्चला स्त्रियस्तासा को नाम प्रिय न कोऽपीत्यर्थ ॥१४६॥ अमुमेवार्थ भङ्गरन्तरेणाह-एकेनेति । स्मितेन पाटला अधरस्य रुक् यासा ता,-स्मितपाटलाधररुच ईषद्धासपाटलितावरा । स्मिता विकसिता या पाटला ('गुलावका फूल ) तस्या इव अधरस्य रुक् यासान्ता इति वा विग्रह । अन- ल्पाक्षरं-वहुलं यथा स्यात्तथा। एकेन केनचित्पुरुपेण। जल्पन्ति-भापन्ते । इत =अस्मात् । अन्य=भिन्नं । स्फुटन्ती चासौ कुमुदिनी च-स्फुटत्कुमुदिनी विकाशिनीलकमललता, सा इव-फुल्लानि-अत एव-उल्लसन्ति लोचनानि यासा ता, स्फुटत्कुमुदिनी-फुल्लोल्लसल्लोचना =विकसितकमलिनीपुष्पानुकारिफुल्लोलासि- लोलनयना सत्य । वीक्षन्ते पश्यन्ति। दूरम् अत्यन्तम् । उदारं-विशालं, यत् चरित्रं तेन चित्र =आश्चर्यप्रद, विभव -सौन्दर्यादिसम्पत् यस्यासौ तं-सौन्दर्या- दिगुणनिधिम् अन्यं । धिया-चेतसा । ध्यायन्ति-चिन्तयन्ति । इत्थम् इत्थञ्च । परमार्थत वस्तुतस्तु। अर्थवदिव-सत्य नाम । प्रेम-स्नेह । वामझुवा=विलासिनीना। केन केनास्ति । तासा सत्य केनापि स्नेहो नास्ति, पर जगद्वञ्चयन्तीमा कपट- स्नेहप्रदर्शनेन केवलमित्याशय ॥ १४७ ॥ काष्टाना-काष्ठे, आपगाना=नदीभि ,तृप्यति-पूर्यते । अन्तक काल , सर्व- भूतैर्न तृप्यति । पुंसा–पुरुपै , वामलोचना =अमदा , न तृप्यन्तीत्यर्थः ॥ १४८ ॥