पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- अथवा किमनेन वृथा शरीरशोषणेन ? । न किञ्चिन्मया तस्याऽपकर्तुं शक्यमिति । अथवा साध्विदमुच्यते- यो ह्यपकर्तुमशक्तः कुप्यति किमसौ नरोऽत्र निर्लजः ।। उत्पतितोऽपि हि चणकः शक्तः कि भ्राष्ट्रकं भङ्गुम् ? ॥१४॥ अथ कदाचित्प्रत्यूषे योगनिद्रां गतस्य राज्ञः शय्याऽन्ते सार्जनं कुर्वन्निदमाह-'अहो ! दन्तिलस्य महदृप्तत्वं यद्राजमहिषी- मालिङ्गति।' तच्छ्रुत्वा राजा ससम्भ्रममुत्थाय तमुवाच-'भो भो गोरम्भ ! सत्यमेतद्यत्वया जल्पितम् ?, किं देवी दन्तिलेन समालिङ्गिता?।' इति । गोरम्भः प्राह-'देव ! रात्रिजागरणेन द्यूताऽऽसतस्य मे बलान्निद्रा समायाता, तन्न वेद्मि किं मयाऽभिहितम् ? ।' राजा सेयं स्वगतम् [अचिन्तयत्]-'एष तावदस्मद्गृहेऽ- प्रतिहतगतिः, तथा दन्तिलोऽपि। तत्कदाचिदनेन देवी समा- लिङ्गयमाना दृप्या भविष्यति, तेनेदाभिहितम् । उक्तञ्च- यद्वाञ्छति दिवा मयों वीक्षते वा करोति वा । तत्स्वप्नेऽपि तद्भ्यासाद्रूते वाऽथ करोति वा ॥ १४४॥ शुभं वा यदि वा पापं यन्नृणां हृदि संस्थितम् । सुगूढमपि तज्ज्ञेयं स्वप्नवाक्यात्तथा मदात् ||१४५॥ सोऽपि गोरम्भोऽपि । भाण्डपते =अर्थपते [ 'राजभण्डारी' ] । राजप्रसादहानि = राजानुग्रहभङ्ग । अपकर्तु-विहन्तुम् । असौ निर्लज्जो जन । किम् किमर्थ कुग्यति ? । उत्पतितोपि-ऊर्ध्व प्लुतोऽपि । भ्राष्ट्रकम् अम्बरीषम् (भाड)। [ 'चना उछलकर भाड को नहीं फोड सकता' ] ॥ १४३॥ प्रत्यूषे प्रभाते, योगनिद्राम्= अप्रगाढनिद्राम्। ध्यानावस्था वा (योगनिद्रा सचेत निद्रा)। शय्यान्ते पर्यवसमीपे। दृप्तत्वं-धृष्टत्वम् । अप्रतिहता गतिर्यस्यासौ तथा अवारितगमन । सुगूढ रहस्य- भूतमपि, स्वप्नवाक्यं सुप्तप्रलाप , मदात्-मद्यादिमदात् [ 'नशा' ] ॥ १४५ ॥ १ 'स नस्य निर्लज' पा० । २ कचिन्न ।