पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

३. दन्तिल-गोरम्भ-कथा। अस्त्यत्र धरातले वर्द्धमानं नाम नगरम् । तत्र दन्तिलोनाम नानाभाण्डपतिः सकलपुरनायकःप्रतिवसति स्म । तेन पुरकार्य नृपकार्य च कुर्वता तुष्टिं नीतास्तत्पुरवासिनो लोका नृपतिश्च । किं वहुना-न कोऽपि तादृक्केनापि चतुरो दृष्टो नापि श्रुतो वेति । अथवा साधु चेदमुच्यते- 'नरपतिहितकर्ता द्वेष्यतां याति लोके जनपदहितकर्ता त्यज्यते पार्थिवेन्द्रः'। -इति महति विरोधे वर्तमाने समाने नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥ १४२ ।। अथैवं गच्छति काले दन्तिलस्य कदाचित्कन्याविवाहः संप्रवृत्तः। तत्र तेन सर्वे पुरनिवासिनो राजसन्निधिलोकाश्च संमानपुर.सरमामन्य भोजिता वस्त्रादिभिः सत्कृताश्च । ततो विवाहानन्तरं राजा सान्तःपुरः स्वगृहमानीयाऽभ्यर्चितः । अथ तस्य नृपतेहसंमार्जनकर्ता गोरंम्भो नाम राजसेवको गृहायातोऽपि तेनानुचितस्थाने उपविष्टोऽवज्ञयाऽर्द्धचन्द्रं दत्त्वा निःसारितः। सोऽपि ततः प्रभृति निःश्वसन्नपमानान्न रात्रावप्यधिशेते। 'कथं मया तस्य भाण्डपतेः राजप्रसादहानिः कर्तव्ये'ति चिन्तयन्नास्ते। नानाभाण्डपति.-राजकीयगोष्ठागारधनागाराध्यक्ष । [भण्डारी 'खजाची] सकलपुरनायक =नागरिकजननिवहप्रधान ('पञ्च-मुखिया')। तादृक-दन्तिलतुल्य । नरपतीति । जनपदाना लोकाना । 'भवेजनपदो जानपदोऽपि जनदेनायो'- रिति विश्व । हितकर्ता कल्याणकर्ता ॥ १४२ ॥ राजसन्निधिलो का राजसेवका । राजपुरुषा । अन्त पुरेण सहित -सान्त पुर =सपुत्रकलन । अभ्यर्चित -पूजित । सत्कृतश्च । अनुचितस्थाने स्वायोग्य उच्चपढे । अवज्ञया अपमानेन । अर्धचन्द्र-गलहम्त दत्वा । (गर्दनिया देकर)। , कयेयमश्लीलत्वात्काशिकमध्यमपरीक्षापाठ्यग्रन्थवहिर्भूता । २. 'गोरभनामा' ।