पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- . अथ सञ्जीवकसकाशमासाद्य सप्रश्रयमुवाच-'भो मित्र ! प्रार्थितोऽसौ मया भवदर्थे स्वामी, अभयप्रदानं दापितश्च । तद्विश्रब्धं गम्यतामिति। परं त्वया राजप्रसादमासाद्य मया सह समयधर्मेण वर्तितव्यम् । न गर्वमासाद्य स्वप्रभुतया विच. रणीयम् । अहमपि तव सङ्केतेन सर्वां राज्यधुरममात्यपदवीमा- श्रित्योद्धरिप्यामि। एवं कृते द्वयोरप्यावयो राज्यलक्ष्मी ग्या भविष्यति।' उक्तञ्च- आखेटकस्य धर्मेण विसवाः स्युर्वशे नृणाम् । नृपतीन् प्रेरयत्येको हन्त्यन्योऽत्र मृगानिव ॥ १४०॥ तथा च- यो न पूजयते गर्वार्दुत्तमाऽधममध्यमान् । भूपसंमानमान्योऽपि भ्रश्यते-दन्तिलो यथा ।। १४१ ।। सञ्जीवक आह-'कथमेतत् ? ।' सोऽब्रवीत्- सप्रश्रयं-सस्नेहं । 'प्रश्रयप्रणयौ समो' इत्यमरः । असौ स्वामी-सिह -मया भवदर्थम् । अभयप्रदानं प्रार्थित -याचित । मिलिता चाऽभयदक्षिणेति यावत् । विस्रब्धं विस्रम्भसहितं यथा स्यात्तथा । 'समौ विसम्मविश्वासौं इत्यमर । समयधर्मेण = प्रतिजानुसारेण । इदानी याऽऽवयो शपथादिना प्रतिज्ञापूर्वक मैत्री सजाता, सा त्वया सर्वदा पालनीयति भाव । गर्वमासाद्य-अभिमानमा- लम्ब्य । स्वप्रभुतया स्वातन्त्र्येण । सङ्केतन अनुमत्या । राज्यधुरं-राज्यभारम्। उद्धरिष्यामि आत्मनि धारयिष्यामि । आखेटकस्य = मृगयाया । धर्मेण व्यवहारेण । तद्वत् । नृणा-मनुष्याणा । वशे प्रभुत्वे । विभवा =सम्पद स्यु । मृगयाधर्ममेवाह-नृपतीनिति । नृपतीन्= पशुधर्माणो राज , धनिनश्च। एक प्रेरयति विश्वास ग्राहयति,स्वलाभप्रदेषु शुभाऽ- शुभेपु कर्मसु योजयति च। मृगयापक्षे-उत्थापयति। विश्वस्ताश्च पक्षे उत्थापिताश्च तानन्यो हन्ति वञ्चयति, स्वकार्य साधयति च। तद्वदावाभ्या राजलक्ष्मीर्मोक्तु शक्यते, परस्परसाहाय्येनेत्याशयः । 'नृप' निति केचित्पठन्ति ॥ १४० ॥ १. 'प्रसादितोऽसौ' । २. 'ययौचित्य नृपाश्रितान् । स प्राप्नोति पदभ्रश भूपते- दन्तिलो यथा ॥ पा.