पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद.]

  • अभिनवराजलक्ष्मीविराजितम् *

उक्तञ्च सहर्पम्-'स्वामिनः सकाशादभयदक्षिणा दापयितव्या- इति । तदत्र खामी प्रमाणम् । तच्छुत्वा पिङ्गलक आह-'साधु सुमते ! साधु मन्त्रिश्रोत्रिय! साधु ! मम हृदयेन सह संमन्य भवतेदमभिहितम्। तद्दत्ता मया तस्याऽसयदक्षिणा। पर सोऽपि मदर्थे ऽभयदक्षिणां याच. यित्वा द्रुततरमानीयताम्-इति । अथ साधु चेदमुच्यते- अन्तः सारैरकुटिलैरच्छिद्रेः सुपरीक्षितैः । मन्त्रिभिर्धार्यते राज्यं-सुस्तम्भैरिव मन्दिरम् ।। १३७ ।। तथाच- मन्त्रिणां भिन्नसन्धाने, भिपजां सन्निपातिके । कर्मणि व्यज्यते प्रज्ञा, स्वस्थेको वा न पण्डित.१ ॥ १३८ । दमनकोऽपि तं प्रणम्य सञ्जीवकसकाशं प्रस्थितः सहर्षम- चिन्तयत् , अहो ! प्रसादसमुखीनः स्वामी, वचनवशगश्च सवृत्तः, तन्नास्ति धन्यतरो मम । उक्तश्च- अमृतं शिशिरे वह्निरमृतं प्रियदर्शनम् । अमृतं राजसग्मानममृतं क्षीरभोजनम् ।। १३९ ।। स्वीकृत्य पुनरुक्तञ्च । स्वामिन =सिहस्य । अभयमेव दक्षिणा-दापयितव्या । 'मह्य'मिति शेष । मुसते-सुवुद्धे । दमनक ! साधु-शोभनन्त्वया कृतम् । हृदयेन सह संमन्त्र्य-मदीयेन मनसा सहालाप कृत्वेव । मया यदभिधेयं तदेव त्वयोक्तमिति यावत् । तस्य तस्मै वृषभाय । मदर्थे-मत्कृते । अन्त सारै ज्ञाननिधिभि , दृढतरैश्च । अकुटिलै =सरलाशय , अवश्च । मुपरीक्षितै =चिरं परीक्षिते , भारधारणसमथैश्च । स्तम्भ -आवारस्तम्भ, मन्दिरमिव-भवनमिव अमात्यै राज्यं वार्यते ॥१३७॥ भिन्नस्य-विरुद्धस्य, भेद गतस्य च । सन्धाने सान्त्वने, मेलने च । प्रज्ञा- बुद्धिचातुर्य, व्यज्यते अभिज्ञायते । सान्निपातिके कर्मणि सन्निपातरोगचिकि- त्साया । भिपजा-वेद्याना। वुद्धे परीक्षा भवति। स्वस्थे-साधारणावस्थापन्ने ज्वरा- दिचिकित्सारूपे कर्मणि । क पण्डितो न ? अपि तु सर्व एव साधारणोऽपि जन 'पण्डित (कि पुनर्वैद्यनामवारी ) इत्यर्थ ॥१३८॥ प्रसादसमुखीन: प्रसन्न ।