पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीचिराजित्तम् *

स्वामी यदि कथयति ततो मृत्यत्वेन योजयामि ।' पिङ्गलक आह सोलासं-'किं भवाञ्छतोत्येवं कर्तुम् । दमनक आह-किमसाध्यं बुद्धरस्ति ? । उक्तञ्च- न तच्छस्त्रैर्न नागेन्द्रेन हयैर्न पदातिभिः । कार्य संसिद्धिमभ्येति यथा बुद्धया प्रसाधितम् ।। १३५ ॥ पिङ्गलक आह-'यद्यवं तामात्यपदेऽध्यारोपितस्त्वम् । अद्य प्रभृति प्रसादनिग्रहादिकं त्वयैव कार्यमिति निश्चयः।' अथ दमनकः सत्वरं गत्वा सञ्जीवकं साक्षेपमाहूतवान्-'ऐह्ये हीतो दुष्टवृषभ !, स्वामी पिङ्गलकस्त्वामाकारयति, किं निःशको भूत्वा मुहुर्मुहुर्नर्दसि वृथा'-इति। तच्छ्रुत्वा सञ्जीवकोऽब्रवीत्- 'भद्र | कोऽयं पिङ्गलकः ? । दमनक आह-(सविस्मयं)-कि स्वा- मिनं पिङ्गलकमपि न जानासि ?। पुनश्च सामर्पमाह-क्षणं प्रति. पालय, फलेनैव ज्ञास्यसि । नन्वयं सर्वमृगपरिवृतो वटतले स्वामी पिझलकनामा सिहस्तिष्ठति।' तच्छ्रुत्वा गतायुषमिवाऽऽत्मानं मन्यमानः सञ्जीवकः परं विपादमगमत् । आह च-'भद्र ! भवन्साधुसमाचारोवचनपटुश्च दृश्यते, तद्यदि मामवश्यं तत्र नयसि-तदभयप्रदानेन स्वामिनः सकाशात्प्रसादः कारयितव्यः।' दमनक आह-'भोः ! सत्यमभि- हितं भवता, नीतिरेषा । यतः- मिति शेष । सोच्छासं-दीर्घ श्वासं विमुच्य ।-आह-जगाद । पदातय =पादचा- रिण सैनिका ॥ १३५॥ प्रसादनिग्रहादिकं-पारितोषिकदानवधवन्धनादिकम् । प्रसाढ =पारितोषिकवितरण, । निग्रह =दण्डपातनम् । निश्चय. । 'ममेति शेप । अथ-सिहप्रतिज्ञानन्तरम् । साक्षेपं सभर्त्सनम् । तं वृषभम् । इदम्= इत्थम् । इत-इह ( यहाँ) आकारयति-आह्वयति। नर्दसि शब्दं करोपि । भद्र साधो ('भाई' 'भले आदमी' )। क्षण-किञ्चित्काल । प्रतिपालय=स्थिरो भव । ननु निश्चये । 'प्रश्नावधारणानुजानुनयामन्त्रणे ननु' इत्यसर । मृगा = १ 'भृत्यत्वे नियोजयामि'-इति पाठान्तरम् ।