पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारकम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

प्रसन्नो भूत्वाऽब्रवीच-'भोः ! सत्यमभिहितं मम मात्रा, यत्पुरु- षेण कोऽपि सहाय. कार्यः, नैकाकिना गन्तव्यम् , यतो मया श्रद्धापूरितचेतसा तद्वचनमनुष्ठितम् , तेनाहं कर्कटेन सर्पव्यापा- दनाद्रक्षितः । अथवा साध्विमुच्यते- 'क्षीणःश्रेयति शशी रविमृद्धो वर्धयति पाथसांनाथम् । अन्ये विपदि सहाया धनिनां श्रियमनुभवन्त्यन्ये ।। ८९ ।। मन्त्रे तीर्थ द्विजे देवे दैवज्ञे भेपजे गुरौ । याशी भावना यस्य सिद्धिर्भवति ताशी' ॥९॥ एवमुक्त्वाऽसौ ब्राह्मणो यथाभिप्रेतं गतः। अतोऽहं ब्रवीमि "अपि कापुरुषो मार्गे' इति । ॐ कर्पूरपुटिकायाम् । प्रबुद्ध =सुप्तोत्थित । कोऽपि-कश्चिदपि । श्रद्धया पूरितम्- -समन्वितं चेतो यस्यासौ तेन श्रद्धापूरितचेतसा श्रद्धालुना । सर्पव्यापादनात -सर्पमारणात् । क्षीण, अमावास्याया नष्टकलो भूत्वा । शशी-चन्द्र । रवि श्रयति-सूर्य- माश्रयते । परन्तु-ऋद्ध =पूर्णकलो यदा भवति ( पूर्णिमाया )-तदा । पाथसाम्- जलानाम् । नाथ समुद्रम् । वर्द्धयति प्रवर्द्धयति, हर्पयति-न रविम्, इत्य हो । कृतघ्नता चन्द्रस्य । तदाह-अन्य इति । धनिना विपदि सहाया. खलु अन्ये भवन्ति, परन्तु-समृद्धिकाले त्रियमन्येऽनुभवन्ति। समृद्धि समये ये सन्निहितास्ते न विपदि सहायता कुर्वन्ति । ये च खलु विपदि सहायास्ते धनिमि स्वसमृद्धी न स्मर्यन्ते । एवञ्च विपदि सहायभूतो जन सर्वथा स्मरणीयो रक्षणीयश्चेत्या- शयः ॥ ८९ ॥ मन्त्रे-तान्त्रिके वैदिके वा मन्त्रे। तीर्ये-गङ्गादितीर्थे । द्विजे- ब्राह्मणे। देवजे-मौहर्तिके। भेषजे औषये। यस्य पुंस यादृशी भावना विश्वास , तस्य खलु तादृशी तथैव सिद्धिर्भवति । देवद्विजगुर्वादीन् देवादिबुद्धया आस्तिक्येन विश्वसन् सिद्धिमृच्छति । अतो गुर्वादीनां वचनं सर्वदा पालनीयं, तद्वचसि च दृढो विश्वासो हि फलदायको भवतीत्यर्थ ॥ ९ ॥ १'सरति' । २ 'रविवृद्धौ'।