पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारकम्]

  • अभिनवराजलक्ष्मीविराजितम् *

बभूव। एवमभिधाय तेन शेपं भारुण्ड्याः प्रदत्तम् । सापि तदा- स्वाध प्रहृष्टतमा-आलिङ्गनचुम्बनसम्भावनाद्यनेकचाटुपरा च द्वितीयं मुखं तद्दिनादेव प्रभृति सोद्वेगं सविषादं च तिष्ठति। अथान्येधुद्वितीयमुखेन विषफलं प्राप्तम् । तद् दृष्ट्वाऽपरमाह- 'भो निस्त्रिंश ! पुरुषाधम! निरपेक्ष ! मया विषफलमासादितम्,- तत्तवाऽपमानाद्भक्षयामि।' अपरेणाऽभिहितम्-'मूर्ख ! मा मैवं कुरु । एवं कृते द्वयोरपि विनाशो भविष्यति'। अथैवं वदता तेनापमानेन तत्फलं भक्षितम् । किं बहुना, द्वावपि विनष्टौ । अतोऽहं ब्रवीमि-'एकोदरा पृथग्ग्रीवा' इति ॥ चक्रधर आह-'सत्यमेतत् । तद्गच्छ गृहम् । परमेकाकिना न गन्तव्यम् । उक्तञ्च- एकः स्वाटु न भुञ्जीत, नैकः सुप्तेषु जागृयात् । एको न गच्छेदध्वानं, नैकश्चार्थान्प्रचिन्तयेत् ॥७॥ अपि कापुरुपो मार्गे द्वितीय. क्षेमकारकः । कर्कटेन द्वितीयेन जीवित परिरक्षितम् ।। ८८ ॥ अल्पतमम्। प्रयच्छ-देहि। जिह्व लौण्य=जिह्वासन्तर्पणम् । वक्त्रं-मुखम्। शेषेण=- अवशिष्टेन । प्रिया भार्या । भारुण्ड्या स्वभार्यायै । शेपत्वविवक्षया पष्ठी । सा- भारुण्डी। तत्-अमृतफलम् । प्रहृष्टतमा प्रसन्ना। आलिङ्गनं-समाश्टेप। चुम्बनम्- प्रसिद्धम् । सम्भावन-कटाक्षनिक्षेप । आमर्शनादिकं वा। चाटु-प्रिय हृद्यं वाक्यम् । सोद्वेगम्-अरतिसमाकुलम् । सविषाद-सखेदम् । अपर प्रथम मुखम्। निस्त्रिश-निष्करण । पुरुषेपु अवम-नीच । निरपेक्ष परपीडानभिज्ञ । आत्ममानिन् ! । द्वयोरपि आवयोईयोरपि । एकोदरतया । विनाश =मरणम् । वदन्तमपि-'अनादृत्ये ते शेष । किं वहुना=किमधिकजल्प. नेन । 'सक्षिप्य कथाङ्कथयामीति यावत् । द्वापि द्वावपि भारुण्डौ । स्वादु= मधुरम् । एक =एकाकी। सुप्तेपु-अन्येपु सुप्तेपु सत्सु । अर्थान् चिन्तनीयान् . जटिलान् विषयान् ॥ ८७ ॥ कायुरुपा भीरु । द्वितीयं-सहायभूतश्चेत् । क्षेमकारक -सुखप्रद । जीवितं- अपि च-