पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-कारकम् ]

  • अभिनवराजलक्ष्मीविराजितम् ३८

सोऽपि तदाकर्ण्य हृष्टमनाः सृक्कणी परिलिहन्द्रुतमुत्थाय दीमादाय प्रमथितुमारब्धः। अथ तस्य मत्स्यान्मनतो विप. गर्भवाप्पेण संस्पृष्टं नीलपटलं चक्षुमिगलत् । असावप्यन्धस्तं- बहुगुणं मन्यमानो विशेषान्नेत्राभ्यां वाष्पग्रहणमकरोत् । ततो लब्धदृष्टिर्जातो यावत्पश्यति तावत्तक्रमध्ये कृष्णसर्प-- खण्डानि केवलान्येवावलोकयति । ततो व्यचिन्तयत्-'अहो! किमेतत् ? मम मत्स्यामिषं कथि- तमासीदनया। एतानि तु कृष्णसर्पखण्डानि!। तत्तावद्विजानामि सम्यक् त्रिस्तन्याश्चेष्टितं-'किं मम वधोपायक्रमः, कुञ्जस्य वा ?, उताहो अन्यस्य वा कस्यचित् ?'। एव विचिन्त्य स्वाकारं गृहन्नन्धवत्कर्म करोति यथा पुरा । अत्रान्तरे कुब्जः समागत्य नि.शङ्कतयाऽऽलिङ्गनचुम्बनादि-- भिस्त्रिस्तनीं सेवितुमुपचक्रमे ।सोऽप्यन्धस्तमवलोकन्नपि यावन' किञ्चिच्छस्त्रं पश्यति, तावत्कोपव्याकुलमनाः पूर्ववच्छयनं गत्वा, कुब्जं चरणाभ्यां सङ्गृह्य, सामर्थ्यात्स्वमस्तकोपरि भ्रामयित्वा, त्रिस्तनी हृदये व्यताडयत् । अथ कुब्जप्रहारेण तस्यास्तृतीयः- स्तन उरसि प्रविष्टः । तथा बलान्मस्तकोपरि भ्रामणेन कुब्ज प्राञ्जलतां गतः। अतोऽहं ब्रवीमि-'अन्धकः कुब्जकश्चैव-' इति । ® सुवर्णसिद्धिराह-भोः ! सत्यमेतत, दैवानुकूलतया सर्व कल्याणं सम्पद्यते. तथापि पुरुषेण सतां वचनं कार्यम् । न पुनरे- कम्बिम् ( चमचा । सृकणी ओष्ठप्रान्तौ। आस्वादरसानुभवात्-परिलिहन् । विषगर्भवाष्पेण=विमिलितधूमेन । नीलपटलम्-नेत्रयोनीलमावरणम् । ('झिल्ली)। अगलत्=पपात । बहुगुणं लाभप्रदम् । कुन्जस्य वेति। अस्य वधार्थमुपाय.' इति शेष । स्वाकार-स्वभावम् । गृहन् रक्षन् । ( छिपाकर )। सामर्थ्यात शक्त्या । हृदये-उरःस्थले । प्राञ्जलता-सरलताम् । दैवानुकूलतया अदृष्टानुकूल्येन । कल्याण शुभम् । पुरुषेण=विदुषा । असं-- १ 'सुवर्णसिद्ध आह' । पा०