पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[५ अपरीक्षित- समं विवाहविधिना त्रिस्तनी तस्मै दत्त्वा जलयाने निधाय कैवर्ताः प्रोक्ताः-'भोः । देशान्तरं नीत्वा कस्मिश्चिदधिष्ठानेऽन्धः सपत्नीकः कुब्जकेन सह मोचनीयः।' तथानुष्टिते विदेशमासाद्य कस्मिश्चिदधिष्ठाने कैवर्तदर्शिते त्रयोऽपि मूल्येन गृहं प्राप्ताः सुखेन कालं नयन्ति स्म । केवलमन्धः पर्यवे सुप्तस्तिष्ठति, गृह- व्यापार मन्थरकः करोति । एवं गच्छता कालेन त्रिस्तन्याः कुब्जकेन सह विकृतिः समपद्यत । अथवा साध्विदसुच्यते- 'यदि स्याच्छीतलो वह्निश्चन्द्रमा दहनात्मकः । सुस्वादः सागरः स्त्रीणां तत्सतीत्वं प्रजायते ॥ ९२॥ अथाऽन्येद्युस्त्रिस्तन्या मन्थरकोऽभिहित:-'भो ! सुभग ! यद्येषोऽन्धः कथञ्चियापाद्यते, तदाऽऽवयोः सुखेन कालो याति। तदन्विप्यतां कुत्रचिद्विषम् । येनास्मै तत्प्रदाय सुखिनी भवामि।' अन्यदा कुब्ज केन परिभ्रमता मृतः कृष्णसर्पः प्राप्तः । तं गृहीत्वा प्रहृष्टमना गृहमभ्येत्य तामाह-सुभगे ! लब्धोऽयं कृष्णसर्पः, तदेनं खण्डश. कृत्वा प्रभूतशुण्ठ्यादिभिः संस्कार्याऽ- स्मै विकलनेत्राय मत्स्यामिषं भणित्वा प्रयच्छ, येन द्राग्विन. श्यति । यतोऽस्य मत्स्यस्यामिषं सदा प्रियम् ।' एवमुक्त्वा मन्थरको बहिर्गतः । सापि प्रदीप्ते वह्नौ कृष्णसर्प खण्डशः कृत्वा तक्रस्थाल्या- माधाय गृहव्यापाराकुला तं विकलाक्षं सप्रश्रयमुवाच-'आर्य- पुत्र! तवाभीष्टं मत्स्यमांसं समानीतम् । यतस्त्वं सदैव तत्पृ. च्छसि । ते च मत्स्या वह्नौ पाचनाय तिष्ठन्ति । तद्यावदहं गृह- कृत्यं करोमि, तावत्त्वं दामादाय क्षणमेकं तान्प्रचालय ।' कैवर्ता:-धीवरा. । पर्यवे-मच्चके । विकृति =पापसम्बन्धः । दहनात्मकः-उष्ण ! तत् तर्हि ॥ ९३ ॥ संस्कार्य-संसाध्य (पका कर)। मत्स्यामिष-मत्स्यमासम् । द्राक्-झटिति । विकलाक्षम् अन्धम् । सप्रश्रय-सस्नेहम् । आर्यपुत्र-प्रिय ! कान्त !। दाम्= १ बाटे गत 'पा. -