पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारकम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

४०९ यति, तदेनां तस्मै दत्त्वा देशत्यागेन स नियोजयितव्यः' इति । •एवं कृते लोकद्वयाऽविरुद्धता भवति।' अथ तेषां तद्वचनमाकर्ण्य स राजा पटहशब्देन सर्वत्रघोषणा- माज्ञापयामास-'अहो! त्रिस्तनीं राजकन्यां यः कश्चिदुद्वाहयति स सुवर्णलक्षमाप्नोति, देशत्यागञ्च ।' एवं तस्यामाघोषणायां 'क्रियमाणायां महाकालो व्यतीतः। न कश्चित्तां प्रतिगृह्णाति । साऽपि यौवनोन्मुखी साता सुगुप्तस्थानस्थिता यत्नेन रक्ष्यमाणा तिष्ठति । अथ तत्रैव नगरे कश्चिदन्धस्तिष्ठति । तस्य च मन्थरकनामा कुब्जोऽग्रेसरो यष्टिग्राही। ताभ्यां तं पटह- शब्दमाकर्ण्य मिथो मन्त्रितम्-'स्पृश्यतेऽयं पटहः । यदि कथमपि दैवात्कन्या लभ्यते,-सुवर्णप्राप्तिश्च भवति-तदा सुखेन सुवर्ण प्राप्त्या कालो ब्रजति। अथ यदि तस्या दोपतो मृत्युर्भवति, तदा दारिम्योपात्तस्यास्य क्लेशस्य पर्यन्तो भवति। उक्तञ्च- लज्जा स्नेहः स्वरमधुरता बुद्धयो यौवनश्रीः कान्तासङ्गः स्वजनममता दुःखहानिर्विलासः ।। धर्मः शाखं सुरगुरुमतिः शौचमाचारचिन्ता पूर्णे सर्वे जठरपिठरे प्राणिनां सम्भवन्ति ।।९१॥ एवमुक्त्वा अन्धेन गत्वा स पटहः स्पृष्टः । उक्तञ्च-भोः ! अहं तां कन्यामुद्वाहयामि यदि राजा मे प्रयच्छति।' ततस्तै -राजपुरुषैर्गत्वा राज्ञे निवेदितम्-'देव ! अन्धेन केनचित्पटहः स्पृष्टः। तत्र विषये देवः प्रमाणम् ।' राजा प्राह- 'अन्धो वा बधिरो वाऽपिकुष्ठी वाऽप्यन्त्यजोऽपि वा। प्रतिगृह्णातु तां कन्यां सलक्षां स्याद्विदेशगः' ।। ९२ ॥ अथ राजादेशात्तै रक्षापुरुषैस्तं नदीतीरे नीत्वा सुवर्णलक्षण सुवर्णलक्ष-निष्कलक्षम् । [१ लाख सोने की मोहर ] । अग्रेसर अग्रयायी। मिथ = परस्परम् । मन्त्रितं-विचारितम् । पर्यन्तः= -समाप्ति । जठरपिठरे उदरपात्रे ॥ ९१॥ विदेशगः निर्वासित ॥ ९२ ॥