पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[५ अपरीक्षित- वसति स्म। एकदा तेन भ्रमताऽटव्यां कश्चिद्राह्मणः समा- सादितः। ततस्तस्य स्कन्धमारुह्य प्रोवाच-'भोः अग्रेसरोगम्यताम् ।' ब्राह्मणोऽपि भयत्रस्तमनास्तमादाय प्रस्थितः। अथ तस्य कमलो- दरकोमलौ पादौ दृष्ट्वा ब्राह्मणो राक्षसमपृच्छत्-'भोः ! किमेवं- विधौ ते पादावतिकोमलौ ? | राक्षस आह-'भोः ! व्रत- मस्ति,-नाहमार्द्रपादो भूमिं स्पृशामि ।' ततस्तच्छ्रुत्वाऽऽत्मनो मोक्षोपायं चिन्तयन्स सरःप्राप्तः। ततो राक्षसेनाभिहितम्-'भोः ! यावदहं स्नानं कृत्वा देवता- उर्चनविधि विधायाऽऽगच्छामि तावत्त्वयाऽतः स्थानादन्यत्र न गन्तव्यम् ।' तथानुष्ठिते द्विजश्चिन्तयामास-'नूनं देवतार्चन- विधेरूज़ सामेष भक्षयिष्यति, तद्रुततरं गच्छामि, येनैष आर्द्र- पादो न मम पृष्ठमेष्यति । तथाऽनुष्ठिते राक्षसो व्रतभङ्गभयात्तस्य पृष्ठं न गतः। अतो. ऽहं ब्रवीमि-'पृच्छकेन सदा भाव्यम्-' इति । ® अथ तेभ्यस्तच्छ्रुत्वा राजा द्विजानाहूय प्रोवाच-'भो ब्राह्म णाः ! त्रिस्तनी मे कन्या समुत्पन्ना,-तकि तस्याः प्रतिविधान- मस्ति, न वा ? । ते प्रोचुः-देव ! श्रूयताम्- 'हीनाङ्गी वाऽधिकाङ्गी वा या भवेत्कन्यका नृणाम् । भर्तुः स्यात्सा विनाशाय स्वशीलनिधनाय च ॥ ८९ ।। या पुनस्त्रिस्तनी कन्या याति लोचनगोचरम् । पितरं नाशयत्येव सा द्रुतं नाऽत्र संशयः ॥९० ॥ तस्मादस्या दर्शनं परिहरतु देवः । तथा-यदि कञ्चिदुद्वाह- नूनम् अवश्यम्। तेभ्यः कञ्चुकिम्य. । प्रतिविधानम्-उपायः। स्वशीलनिधनाय- स्वचरित्रभङ्गाय । लोचनगोचरं-दर्शनम् ॥ ९० ॥ १. 'अग्रेसरेण गम्यतामिति गौडा. पठन्ति । २ 'अनुदानपाद'इठि लिखिते पाठ', स एव शोभनः । तत्र-अनुदानम् अनावृतम् । ('उभाणा पैर' इति भाषायाम् । ) tare